दूत उवाच 001
जन्यार्थमन्नं द्रुपदेन राज्ञा विवाहहेतोरुपसंस्कृतं च 001a
तदाप्नुवध्वं कृतसर्वकार्याः कृष्णा च तत्रैव चिरं न कार्यम् 001c
इमे रथाः काञ्चनपद्मचित्राः सदश्वयुक्ता वसुधाधिपार्हाः 002a
एतान्समारुह्य परैत सर्वे पाञ्चालराजस्य निवेशनं तत् 002c
वैशम्पायन उवाच 003
ततः प्रयाताः कुरुपुङ्गवास्ते पुरोहितं तं प्रथमं प्रयाप्य 003a
आस्थाय यानानि महान्ति तानि कुन्ती च कृष्णा च सहैव याते 003c
श्रुत्वा तु वाक्यानि पुरोहितस्य यान्युक्तवान्भारत धर्मराजः 004a
जिज्ञासयैवाथ कुरूत्तमानां द्रव्याण्यनेकान्युपसञ्जहार 004c
फलानि माल्यानि सुसंस्कृतानि चर्माणि वर्माणि तथासनानि 005a
गाश्चैव राजन्नथ चैव रज्जूर्द्रव्याणि चान्यानि कृषीनिमित्तम् 005c
अन्येषु शिल्पेषु च यान्यपि स्युः सर्वाणि कॢप्तान्यखिलेन तत्र 006a
क्रीडानिमित्तानि च यानि तानि सर्वाणि तत्रोपजहार राजा 006c
रथाश्ववर्माणि च भानुमन्ति खड्गा महान्तोऽश्वरथाश्च चित्राः 007a
धनूंषि चाग्र्याणि शराश्च मुख्याः शक्त्यृष्टयः काञ्चनभूषिताश्च 007c
प्रासा भुशुण्ड्यश्च परश्वधाश्च साङ्ग्रामिकं चैव तथैव सर्वम् 008a
शय्यासनान्युत्तमसंस्कृतानि तथैव चासन्विविधानि तत्र 008c
कुन्ती तु कृष्णां परिगृह्य साध्वीमन्तःपुरं द्रुपदस्याविवेश 009a
स्त्रियश्च तां कौरवराजपत्नीं प्रत्यर्चयाञ्चक्रुरदीनसत्त्वाः 009c
तान्सिंहविक्रान्तगतीनवेक्ष्यमहर्षभाक्षानजिनोत्तरीयान् 010a
गूढोत्तरांसान्भुजगेन्द्रभोगप्रलम्बबाहून्पुरुषप्रवीरान् 010c
राजा च राज्ञः सचिवाश्च सर्वे पुत्राश्च राज्ञः सुहृदस्तथैव 011a
प्रेष्याश्च सर्वे निखिलेन राजन्हर्षं समापेतुरतीव तत्र 011c
ते तत्र वीराः परमासनेषु सपादपीठेष्वविशङ्कमानाः 012a
यथानुपूर्व्या विविशुर्नराग्र्यास्तदा महार्हेषु न विस्मयन्तः 012c
उच्चावचं पार्थिवभोजनीयं पात्रीषु जाम्बूनदराजतीषु 013a
दासाश्च दास्यश्च सुमृष्टवेषाः भोजापकाश्चाप्युपजह्रुरन्नम् 013c
ते तत्र भुक्त्वा पुरुषप्रवीरा यथानुकामं सुभृशं प्रतीताः 014a
उत्क्रम्य सर्वाणि वसूनि तत्र साड्ग्रामिकान्याविविशुर्नृवीराः 014c
तल्लक्षयित्वा द्रुपदस्य पुत्रो राजा च सर्वैः सह मन्त्रिमुख्यैः 015a
समर्चयामासुरुपेत्य हृष्टाः कुन्तीसुतान्पार्थिवपुत्रपौत्रान् 015c