वैशम्पायन उवाच 001
ततस्तथोक्तः परिहृष्टरूपः पित्रे शशंसाथ स राजपुत्रः 001a
धृष्टद्युम्नः सोमकानां प्रबर्हो वृत्तं यथा येन हृता च कृष्णा 001c
योऽसौ युवा स्वायतलोहिताक्षः कृष्णाजिनी देवसमानरूपः 002a
यः कार्मुकाग्र्यं कृतवानधिज्यं लक्ष्यं च तत्पातितवान्पृथिव्याम् 002c
असज्जमानश्च गतस्तरस्वी वृतो द्विजाग्र्यैरभिपूज्यमानः 003a
चक्राम वज्रीव दितेः सुतेषु सर्वैश्च देवैर्ऋषिभिश्च जुष्टः 003c
कृष्णा च गृह्याजिनमन्वयात्तं नागं यथा नागवधूः प्रहृष्टा 004a
अमृष्यमाणेषु नराधिपेषु क्रुद्धेषु तं तत्र समापतत्सु 004c
ततोऽपरः पार्थिवराजमध्ये प्रवृद्धमारुज्य महीप्ररोहम् 005a
प्रकालयन्नेव स पार्थिवौघान्क्रुद्धोऽन्तकः प्राणभृतो यथैव 005c
तौ पार्थिवानां मिषतां नरेन्द्र कृष्णामुपादाय गतौ नराग्र्यौ 006a
विभ्राजमानाविव चन्द्रसूर्यौ बाह्यां पुराद्भार्गवकर्मशालाम् 006c
तत्रोपविष्टार्चिरिवानलस्य तेषां जनित्रीति मम प्रतर्कः 007a
तथाविधैरेव नरप्रवीरैरुपोपविष्टैस्त्रिभिरग्निकल्पैः 007c
तस्यास्ततस्तावभिवाद्य पादावुक्त्वा च कृष्णामभिवादयेति 008a
स्थितौ च तत्रैव निवेद्य कृष्णां भैक्षप्रचाराय गता नराग्र्याः 008c
तेषां तु भैक्षं प्रतिगृह्य कृष्णा कृत्वा बलिं ब्राह्मणसाच्च कृत्वा 009a
तां चैव वृद्धां परिविष्य तांश्च नरप्रवीरान्स्वयमप्यभुङ्क्त 009c
सुप्तास्तु ते पार्थिव सर्व एव कृष्णा तु तेषां चरणोपधानम् 010a
आसीत्पृथिव्यां शयनं च तेषां दर्भाजिनाग्र्यास्तरणोपपन्नम् 010c
ते नर्दमाना इव कालमेघाः कथा विचित्राः कथयाम्बभूवुः 011a
न वैश्यशूद्रौपयिकीः कथास्ता न च द्विजातेः कथयन्ति वीराः 011c
निःसंशयं क्षत्रियपुङ्गवास्ते यथा हि युद्धं कथयन्ति राजन् 012a
आशा हि नो व्यक्तमियं समृद्धा मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात् 012c
यथा हि लक्ष्यं निहतं धनुश्च सज्यं कृतं तेन तथा प्रसह्य 013a
यथा च भाषन्ति परस्परं ते छन्ना ध्रुवं ते प्रचरन्ति पार्थाः 013c
ततः स राजा द्रुपदः प्रहृष्टः पुरोहितं प्रेषयां तत्र चक्रे 014a
विद्याम युष्मानिति भाषमाणो महात्मनः पाण्डुसुताः स्थ कच्चित् 014c
गृहीतवाक्यो नृपतेः पुरोधा गत्वा प्रशंसामभिधाय तेषाम् 015a
वाक्यं यथावन्नृपतेः समग्रमुवाच तान्स क्रमवित्क्रमेण 015c
विज्ञातुमिच्छत्यवनीश्वरो वः पाञ्चालराजो द्रुपदो वरार्हाः 016a
लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा हर्षस्य नान्तं परिपश्यते सः 016c
तदाचड्ढ्वं ज्ञातिकुलानुपूर्वीं पदं शिरस्सु द्विषतां कुरुध्वम् 017a
प्रह्लादयध्वं हृदयं ममेदं पाञ्चालराजस्य सहानुगस्य 017c
पाण्डुर्हि राजा द्रुपदस्य राज्ञः प्रियः सखा चात्मसमो बभूव 018a
तस्यैष कामो दुहिता ममेयं स्नुषा यदि स्यादिति कौरवस्य 018c
अयं च कामो द्रुपदस्य राज्ञो हृदि स्थितो नित्यमनिन्दिताङ्गाः 019a
यदर्जुनो वै पृथुदीर्घबाहुर्धर्मेण विन्देत सुतां ममेति 019c
तथोक्तवाक्यं तु पुरोहितं तं स्थितं विनीतं समुदीक्ष्य राजा 020a
समीपस्थं भीममिदं शशास प्रदीयतां पाद्यमर्घ्यं तथास्मै 020c
मान्यः पुरोधा द्रुपदस्य राज्ञस्तस्मै प्रयोज्याभ्यधिकैव पूजा 021a
भीमस्तथा तत्कृतवान्नरेन्द्र तां चैव पूजां प्रतिसङ्गृहीत्वा 021c
सुखोपविष्टं तु पुरोहितं तं युधिष्ठिरो ब्राह्मणमित्युवाच 022a
पाञ्चालराजेन सुता निसृष्टा स्वधर्मदृष्टेन यथानुकामम् 022c
प्रदिष्टशुल्का द्रुपदेन राज्ञा सानेन वीरेण तथानुवृत्ता 023a
न तत्र वर्णेषु कृता विवक्षा न जीवशिल्पे न कुले न गोत्रे 023c
कृतेन सज्येन हि कार्मुकेण विद्धेन लक्ष्येण च सन्निसृष्टा 024a
सेयं तथानेन महात्मनेह कृष्णा जिता पार्थिवसङ्घमध्ये 024c
नैवङ्गते सौमकिरद्य राजा सन्तापमर्हत्यसुखाय कर्तुम् 025a
कामश्च योऽसौ द्रुपदस्य राज्ञः स चापि सम्पत्स्यति पार्थिवस्य 025c
अप्राप्यरूपां हि नरेन्द्रकन्यामिमामहं ब्राह्मण साधु मन्ये 026a
न तद्धनुर्मन्दबलेन शक्यं मौर्व्या समायोजयितुं तथा हि 026c
न चाकृतास्त्रेण न हीनजेन लक्ष्यं तथा पातयितुं हि शक्यम् 026e
तस्मान्न तापं दुहितुर्निमित्तं पाञ्चालराजोऽर्हति कर्तुमद्य 027a
न चापि तत्पातनमन्यथेह कर्तुं विषह्यं भुवि मानवेन 027c
एवं ब्रुवत्येव युधिष्ठिरे तु पाञ्चालराजस्य समीपतोऽन्यः 028a
तत्राजगामाशु नरो द्वितीयो निवेदयिष्यन्निह सिद्धमन्नम् 028c