वैशम्पायन उवाच 001
धृष्टद्युम्नस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ 001a
अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशनम् 001c
सोऽज्ञायमानः पुरुषानवधाय समन्ततः 002a
स्वयमारान्निविष्टोऽभूद्भार्गवस्य निवेशने 002c
सायेऽथ भीमस्तु रिपुप्रमाथी जिष्णुर्यमौ चापि महानुभावौ 003a
भैक्षं चरित्वा तु युधिष्ठिराय निवेदयाञ्चक्रुरदीनसत्त्वाः 003c
ततस्तु कुन्ती द्रुपदात्मजां तामुवाच काले वचनं वदान्या 004a
अतोऽग्रमादाय कुरुष्व भद्रे बलिं च विप्राय च देहि भिक्षाम् 004c
ये चान्नमिच्छन्ति ददस्व तेभ्यः परिश्रिता ये परितो मनुष्याः 005a
ततश्च शेषं प्रविभज्य शीघ्रमर्धं चतुर्णां मम चात्मनश्च 005c
अर्धं च भीमाय ददाहि भद्रे य एष मत्तर्षभतुल्यरूपः 006a
श्यामो युवा संहननोपपन्न एषो हि वीरो बहुभुक्सदैव 006c
सा हृष्टरूपैव तु राजपुत्री तस्या वचः साध्वविशङ्कमाना 007a
यथावदुक्तं प्रचकार साध्वी ते चापि सर्वेऽभ्यवजह्रुरन्नम् 007c
कुशैस्तु भूमौ शयनं चकार माद्रीसुतः सहदेवस्तरस्वी 008a
यथात्मीयान्यजिनानि सर्वे संस्तीर्य वीराः सुषुपुर्धरण्याम् 008c
अगस्त्यशास्तामभितो दिशं तु शिरांसि तेषां कुरुसत्तमानाम् 009a
कुन्ती पुरस्तात्तु बभूव तेषां कृष्णा तिरश्चैव बभूव पत्तः 009c
अशेत भूमौ सह पाण्डुपुत्रैः पादोपधानेव कृता कुशेषु 010a
न तत्र दुःखं च बभूव तस्या न चावमेने कुरुपुङ्गवांस्तान् 010c
ते तत्र शूराः कथयाम्बभूवुः कथा विचित्राः पृतनाधिकाराः 011a
अस्त्राणि दिव्यानि रथांश्च नागान्खड्गान्गदाश्चापि परश्वधांश्च 011c
तेषां कथास्ताः परिकीर्त्यमानाः पाञ्चालराजस्य सुतस्तदानीम् 012a
शुश्राव कृष्णां च तथा निषण्णां ते चापि सर्वे ददृशुर्मनुष्याः 012c
धृष्टद्युम्नो राजपुत्रस्तु सर्वं वृत्तं तेषां कथितं चैव रात्रौ 013a
सर्वं राज्ञे द्रुपदायाखिलेन निवेदयिष्यंस्त्वरितो जगाम 013c
पाञ्चालराजस्तु विषण्णरूपस्तान्पाण्डवानप्रतिविन्दमानः 014a
धृष्टद्युम्नं पर्यपृच्छन्महात्मा क्व सा गता केन नीता च कृष्णा 014c
कच्चिन्न शूद्रेण न हीनजेन वैश्येन वा करदेनोपपन्ना 015a
कच्चित्पदं मूर्ध्नि न मे निदिग्धं कच्चिन्माला पतिता न श्मशाने 015c
कच्चित्सवर्णप्रवरो मनुष्य उद्रिक्तवर्णोऽप्युत वेह कच्चित् 016a
कच्चिन्न वामो मम मूर्ध्नि पादः कृष्णाभिमर्शेन कृतोऽद्य पुत्र 016c
कच्चिच्च यक्ष्ये परमप्रतीतः सम्युज्य पार्थेन नरर्षभेण 017a
ब्रवीहि तत्त्वेन महानुभावः कोऽसौ विजेता दुहितुर्ममाद्य 017c
विचित्रवीर्यस्य तु कच्चिदद्य कुरुप्रवीरस्य धरन्ति पुत्राः 018a
कच्चित्तु पार्थेन यवीयसाद्य धनुर्गृहीतं निहतं च लक्ष्यम् 018c