वैशम्पायन उवाच 001
भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे ज्येष्ठस्य पाण्डोस्तनयास्तदानीम् 001a
तमेवार्थं ध्यायमाना मनोभिरासाञ्चक्रुरथ तत्रामितौजाः 001c
वृष्णिप्रवीरस्तु कुरुप्रवीरानाशङ्कमानः सहरौहिणेयः 002a
जगाम तां भार्गवकर्मशालां यत्रासते ते पुरुषप्रवीराः 002c
तत्रोपविष्टं पृथुदीर्घबाहुं ददर्श कृष्णः सहरौहिणेयः 003a
अजातशत्रुं परिवार्य तांश्च उपोपविष्टाञ्ज्वलनप्रकाशान् 003c
ततोऽब्रवीद्वासुदेवोऽभिगम्य कुन्तीसुतं धर्मभृतां वरिष्ठम् 004a
कृष्णोऽहमस्मीति निपीड्यपादौ युधिष्ठिरस्याजमीढस्य राज्ञः 004c
तथैव तस्याप्यनु रौहिणेयस्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन् 005a
पितृष्वसुश्चापि यदुप्रवीरावगृह्णतां भारतमुख्य पादौ 005c
अजातशत्रुश्च कुरुप्रवीरः पप्रच्छ कृष्णं कुशलं निवेद्य 006a
कथं वयं वासुदेव त्वयेह गूढा वसन्तो विदिताः स्म सर्वे 006c
तमब्रवीद्वासुदेवः प्रहस्य गूढोऽप्यग्निर्ज्ञायत एव राजन् 007a
तं विक्रमं पाण्डवेयानतीत्य कोऽन्यः कर्ता विद्यते मानुषेषु 007c
दिष्ट्या तस्मात्पावकात्सम्प्रमुक्ता यूयं सर्वे पाण्डवाः शत्रुसाहाः 008a
दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः सहामात्यो न सकामोऽभविष्यत् 008c
भद्रं वोऽस्तु निहितं यद्गुहायां विवर्धध्वं ज्वलन इवेध्यमानः 009a
मा वो विद्युः पार्थिवाः केचनेह यास्यावहे शिबिरायैव तावत् 009c
सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः प्रायाच्छीघ्रं बलदेवेन सार्धम् 009e