वैशम्पायन उवाच 001
गत्वा तु तां भार्गवकर्मशालां पार्थौ पृथां प्राप्य महानुभावौ 001a
तां याज्ञसेनीं परमप्रतीतौ भिक्षेत्यथावेदयतां नराग्र्यौ 001c
कुटीगता सा त्वनवेक्ष्य पुत्रानुवाच भुङ्क्तेति समेत्य सर्वे 002a
पश्चात्तु कुन्ती प्रसमीक्ष्य कन्यां कष्टं मया भाषितमित्युवाच 002c
साधर्मभीता हि विलज्जमाना तां याज्ञसेनीं परमप्रतीताम् 003a
पाणौ गृहीत्वोपजगाम कुन्ती युधिष्ठिरं वाक्यमुवाच चेदम् 003c
इयं हि कन्या द्रुपदस्य राज्ञस्तवानुजाभ्यां मयि सन्निसृष्टा 004a
यथोचितं पुत्र मयापि चोक्तं समेत्य भुङ्क्तेति नृप प्रमादात् 004c
कथं मया नानृतमुक्तमद्य भवेत्कुरूणामृषभ ब्रवीहि 005a
पाञ्चालराजस्य सुतामधर्मो न चोपवर्तेत नभूतपूर्वः 005c
मुहूर्तमात्रं त्वनुचिन्त्य राजा युधिष्ठिरो मातरमुत्तमौजाः 006a
कुन्तीं समाश्वास्य कुरुप्रवीरो धनञ्जयं वाक्यमिदं बभाषे 006c
त्वया जिता पाण्डव याज्ञसेनी त्वया च तोषिष्यति राजपुत्री 007a
प्रज्वाल्यतां हूयतां चापि वह्नि र्गृहाण पाणिं विधिवत्त्वमस्याः 007c
अर्जुन उवाच 008
मा मां नरेन्द्र त्वमधर्मभाजं कृथा न धर्मो ह्ययमीप्सितोऽन्यैः 008a
भवान्निवेश्यः प्रथमं ततोऽयं भीमो महाबाहुरचिन्त्यकर्मा 008c
अहं ततो नकुलोऽनन्तरं मे माद्रीसुतः सहदेवो जघन्यः 009a
वृकोदरोऽहं च यमौ च राजन्नियं च कन्या भवतः स्म सर्वे 009c
एवङ्गते यत्करणीयमत्र धर्म्यं यशस्यं कुरु तत्प्रचिन्त्य 010a
पाञ्चालराजस्य च यत्प्रियं स्यात्तद्ब्रूहि सर्वे स्म वशे स्थितास्ते 010c
वैशम्पायन उवाच 011
ते दृष्ट्वा तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम् 011a
सम्प्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन् 011c
तेषां हि द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम् 012a
सम्प्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः 012c
काम्यं रूपं हि पाञ्चाल्या विधात्रा विहितं स्वयम् 013a
बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम् 013c
तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः 014a
द्वैपायनवचः कृत्स्नं संस्मरन्वै नरर्षभ 014c
अब्रवीत्स हि तान्भ्रातॄन्मिथोभेदभयान्नृपः 015a
सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा 015c