वैशम्पायन उवाच 001
अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः 001a
ऊचुस्तं भीर्न कर्तव्या वयं योत्स्यामहे परान् 001c
तानेवं वदतो विप्रानर्जुनः प्रहसन्निव 002a
उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः 002c
अहमेनानजिह्माग्रैः शतशो विकिरञ्शरैः 003a
वारयिष्यामि सङ्क्रुद्धान्मन्त्रैराशीविषानिव 003c
इति तद्धनुरादाय शुल्कावाप्तं महारथः 004a
भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः 004c
ततः कर्णमुखान्क्रुद्धान्क्षत्रियांस्तान्रुषोत्थितान् 005a
सम्पेततुरभीतौ तौ गजौ प्रतिगजानिव 005c
ऊचुश्च वाचः परुषास्ते राजानो जिघांसवः 006a
आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः 006c
ततो वैकर्तनः कर्णो जगामार्जुनमोजसा 007a
युद्धार्थी वाशिताहेतोर्गजः प्रतिगजं यथा 007c
भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली 008a
दुर्योधनादयस्त्वन्ये ब्राह्मणैः सह सङ्गताः 008c
मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाहवे 008e
ततोऽर्जुनः प्रत्यविध्यदापतन्तं त्रिभिः शरैः 009a
कर्णं वैकर्तनं धीमान्विकृष्य बलवद्धनुः 009c
तेषां शराणां वेगेन शितानां तिग्मतेजसाम् 010a
विमुह्यमानो राधेयो यत्नात्तमनुधावति 010c
तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ 011a
अयुध्येतां सुसंरब्धावन्योन्यविजयैषिणौ 011c
कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे 012a
इति शूरार्थवचनैराभाषेतां परस्परम् 012c
ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि 013a
ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत् 013c
अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा 014a
प्रतिहत्य ननादोच्चैः सैन्यास्तमभिपूजयन् 014c
कर्ण उवाच 015
तुष्यामि ते विप्रमुख्य भुजवीर्यस्य सम्युगे 015a
अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च 015c
किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम 016a
अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः 016c
आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः 017a
विप्ररूपं विधायेदं ततो मां प्रतियुध्यसे 017c
न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः 018a
पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः 018c
वैशम्पायन उवाच 019
तमेवंवादिनं तत्र फल्गुनः प्रत्यभाषत 019a
नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् 019c
ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः 019e
ब्राह्मे पौरन्दरे चास्त्रे निष्ठितो गुरुशासनात् 020a
स्थितोऽस्म्यद्य रणे जेतुं त्वां वीराविचलो भव 020c
एवमुक्तस्तु राधेयो युद्धात्कर्णो न्यवर्तत 021a
ब्रह्मं तेजस्तदाजय्यं मन्यमानो महारथः 021c
युद्धं तूपेयतुस्तत्र राजञ्शल्यवृकोदरौ 022a
बलिनौ युगपन्मत्तौ स्पर्धया च बलेन च 022c
अन्योन्यमाह्वयन्तौ तौ मत्ताविव महागजौ 023a
मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम् 023c
मुहूर्तं तौ तथान्योन्यं समरे पर्यकर्षताम् 023e
ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे 024a
न्यवधीद्बलिनां श्रेष्ठो जहसुर्ब्राह्मणास्ततः 024c
तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः 025a
यच्छल्यं पतितं भूमौ नाहनद्बलिनं बली 025c
पातिते भीमसेनेन शल्ये कर्णे च शङ्किते 026a
शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम् 026c
ऊचुश्च सहितास्तत्र साध्विमे ब्राह्मणर्षभाः 027a
विज्ञायन्तां क्वजन्मानः क्वनिवासास्तथैव च 027c
को हि राधासुतं कर्णं शक्तो योधयितुं रणे 028a
अन्यत्र रामाद्द्रोणाद्वा कृपाद्वापि शरद्वतः 028c
कृष्णाद्वा देवकीपुत्रात्फल्गुनाद्वा परन्तपात् 029a
को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे 029c
तथैव मद्रराजानं शल्यं बलवतां वरम् 030a
बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात् 030c
क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसम्युतात् 031a
अथैनानुपलभ्येह पुनर्योत्स्यामहे वयम् 031c
तत्कर्म भीमस्य समीक्ष्य कृष्णः कुन्तीसुतौ तौ परिशङ्कमानः 032a
निवारयामास महीपतींस्तान्धर्मेण लब्धेत्यनुनीय सर्वान् 032c
त एवं सन्निवृत्तास्तु युद्धाद्युद्धविशारदाः 033a
यथावासं ययुः सर्वे विस्मिता राजसत्तमाः 033c
वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता 034a
इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः 034c
ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः 035a
कृच्छ्रेण जग्मतुस्तत्र भीमसेनधनञ्जयौ 035c
विमुक्तौ जनसम्बाधाच्छत्रुभिः परिविक्षतौ 036a
कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः 036c
तेषां माता बहुविधं विनाशं पर्यचिन्तयत् 037a
अनागच्छत्सु पुत्रेषु भैक्षकालेऽतिगच्छति 037c
धार्तराष्ट्रैर्हता न स्युर्विज्ञाय कुरुपुङ्गवाः 038a
मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः 038c
विपरीतं मतं जातं व्यासस्यापि महात्मनः 039a
इत्येवं चिन्तयामास सुतस्नेहान्विता पृथा 039c
महत्यथापराह्णे तु घनैः सूर्य इवावृतः 040a
ब्राह्मणैः प्राविशत्तत्र जिष्णुर्ब्रह्मपुरस्कृतः 040c