वैशम्पायन उवाच 001
तस्मै दित्सति कन्यां तु ब्राह्मणाय महात्मने 001a
कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात् 001c
अस्मानयमतिक्रम्य तृणीकृत्य च सङ्गतान् 002a
दातुमिच्छति विप्राय द्रौपदीं योषितां वराम् 002c
निहन्मैनं दुरात्मानं योऽयमस्मान्न मन्यते 003a
न ह्यर्हत्येष सत्कारं नापि वृद्धक्रमं गुणैः 003c
हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम् 004a
अयं हि सर्वानाहूय सत्कृत्य च नराधिपान् 004c
गुणवद्भोजयित्वा च ततः पश्चाद्विनिन्दति 004e
अस्मिन्राजसमावाये देवानामिव सन्नये 005a
किमयं सदृशं कञ्चिन्नृपतिं नैव दृष्टवान् 005c
न च विप्रेष्वधीकारो विद्यते वरणं प्रति 006a
स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः 006c
अथ वा यदि कन्येयं नेह कञ्चिद्बुभूषति 007a
अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः 007c
ब्राह्मणो यदि वा बाल्याल्लोभाद्वा कृतवानिदम् 008a
विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथञ्चन 008c
ब्राह्मणार्थं हि नो राज्यं जीवितं च वसूनि च 009a
पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम् 009c
अवमानभयादेतत्स्वधर्मस्य च रक्षणात् 010a
स्वयंवराणां चान्येषां मा भूदेवंविधा गतिः 010c
इत्युक्त्वा राजशार्दूला हृष्टाः परिघबाहवः 011a
द्रुपदं सञ्जिघृक्षन्तः सायुधाः समुपाद्रवन् 011c
तान्गृहीतशरावापान्क्रुद्धानापततो नृपान् 012a
द्रुपदो वीक्ष्य सन्त्रासाद्ब्राह्मणाञ्शरणं गतः 012c
वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान् 013a
पाण्डुपुत्रौ महावीर्यौ प्रतीयतुररिन्दमौ 013c
ततः समुत्पेतुरुदायुधास्ते महीक्षितो बद्धतलाङ्गुलित्राः 014a
जिघांसमानाः कुरुराजपुत्रावमर्षयन्तोऽर्जुनभीमसेनौ 014c
ततस्तु भीमोऽद्भुतवीर्यकर्मा महाबलो वज्रसमानवीर्यः 015a
उत्पाट्य दोर्भ्यां द्रुममेकवीरो निष्पत्रयामास यथा गजेन्द्रः 015c
तं वृक्षमादाय रिपुप्रमाथी दण्डीव दण्डं पितृराज उग्रम् 016a
तस्थौ समीपे पुरुषर्षभस्य पार्थस्य पार्थः पृथुदीर्घबाहुः 016c
तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धेर्जिष्णोः सहभ्रातुरचिन्त्यकर्मा 017a
दामोदरो भ्रातरमुग्रवीर्यं हलायुधं वाक्यमिदं बभाषे 017c
य एष मत्तर्षभतुल्यगामी महद्धनुः कर्षति तालमात्रम् 018a
एषोऽर्जुनो नात्र विचार्यमस्ति यद्यस्मि सङ्कर्षण वासुदेवः 018c
य एष वृक्षं तरसावरुज्य राज्ञां विकारे सहसा निवृत्तः 019a
वृकोदरो नान्य इहैतदद्य कर्तुं समर्थो भुवि मर्त्यधर्मा 019c
योऽसौ पुरस्तात्कमलायताक्षस्तनुर्महासिंहगतिर्विनीतः 020a
गौरः प्रलम्बोज्ज्वलचारुघोणो विनिःसृतः सोऽच्युत धर्मराजः 020c
यौ तौ कुमाराविव कार्त्तिकेयौ द्वावश्विनेयाविति मे प्रतर्कः 021a
मुक्ता हि तस्माज्जतुवेश्मदाहान्मया श्रुताः पाण्डुसुताः पृथा च 021c
तमब्रवीन्निर्मलतोयदाभो हलायुधोऽनन्तरजं प्रतीतः 022a
प्रीतोऽस्मि दिष्ट्या हि पितृष्वसा नः पृथा विमुक्ता सह कौरवाग्र्यैः 022c