वैशम्पायन उवाच 001
यदा निवृत्ता राजानो धनुषः सज्यकर्मणि 001a
अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः 001c
उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च 002a
दृष्ट्वा सम्प्रस्थितं पार्थमिन्द्रकेतुसमप्रभम् 002c
केचिदासन्विमनसः केचिदासन्मुदा युताः 003a
आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः 003c
यत्कर्णशल्यप्रमुखैः पार्थिवैर्लोकविश्रुतैः 004a
नानतं बलवद्भिर्हि धनुर्वेदपरायणैः 004c
तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा 005a
बटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः 005c
अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु 006a
कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते 006c
यद्येष दर्पाद्धर्षाद्वा यदि वा ब्रह्मचापलात् 007a
प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत् 007c
नावहास्या भविष्यामो न च लाघवमास्थिताः 008a
न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम् 008c
केचिदाहुर्युवा श्रीमान्नागराजकरोपमः 009a
पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव 009c
सम्भाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते 010a
शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत् 010c
न च तद्विद्यते किञ्चित्कर्म लोकेषु यद्भवेत् 011a
ब्राह्मणानामसाध्यं च त्रिषु संस्थानचारिषु 011c
अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः 012a
दुर्बला हि बलीयांसो विप्रा हि ब्रह्मतेजसा 012c
ब्राह्मणो नावमन्तव्यः सद्वासद्वा समाचरन् 013a
सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम् 013c
एवं तेषां विलपतां विप्राणां विविधा गिरः 014a
अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः 014c
स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत् 015a
प्रणम्य शिरसा हृष्टो जगृहे च परन्तपः 015c
सज्यं च चक्रे निमिषान्तरेण शरांश्च जग्राह दशार्धसङ्ख्यान् 016a
विव्याध लक्ष्यं निपपात तच्च छिद्रेण भूमौ सहसातिविद्धम् 016c
ततोऽन्तरिक्षे च बभूव नादः समाजमध्ये च महान्निनादः 017a
पुष्पाणि दिव्यानि ववर्ष देवः पार्थस्य मूर्ध्नि द्विषतां निहन्तुः 017c
चेलावेधांस्ततश्चक्रुर्हाहाकारांश्च सर्वशः 018a
न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः 018c
शताङ्गानि च तूर्याणि वादकाश्चाप्यवादयन् 019a
सूतमागधसङ्घाश्च अस्तुवंस्तत्र सुस्वनाः 019c
तं दृष्ट्वा द्रुपदः प्रीतो बभूवारिनिषूदनः 020a
सहसैन्यश्च पार्थस्य साहाय्यार्थमियेष सः 020c
तस्मिंस्तु शब्दे महति प्रवृत्ते युधिष्ठिरो धर्मभृतां वरिष्ठः 021a
आवासमेवोपजगाम शीघ्रं सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् 021c
विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा पार्थं च शक्रप्रतिमं निरीक्ष्य 022a
आदाय शुक्लं वरमाल्यदाम जगाम कुन्तीसुतमुत्स्मयन्ती 022c
स तामुपादाय विजित्य रङ्गे द्विजातिभिस्तैरभिपूज्यमानः 023a
रङ्गान्निरक्रामदचिन्त्यकर्मा पत्न्या तया चाप्यनुगम्यमानः 023c