वैशम्पायन उवाच 001
तेऽलङ्कृताः कुण्डलिनो युवानः परस्परं स्पर्धमानाः समेताः 001a
अस्त्रं बलं चात्मनि मन्यमानाः सर्वे समुत्पेतुरहङ्कृतेन 001c
रूपेण वीर्येण कुलेन चैव धर्मेण चैवापि च यौवनेन 002a
समृद्धदर्पा मदवेगभिन्ना मत्ता यथा हैमवता गजेन्द्राः 002c
परस्परं स्पर्धया प्रेक्षमाणाः सङ्कल्पजेनापि परिप्लुताङ्गाः 003a
कृष्णा ममैषेत्यभिभाषमाणा नृपासनेभ्यः सहसोपतस्थुः 003c
ते क्षत्रिया रङ्गगताः समेता जिगीषमाणा द्रुपदात्मजां ताम् 004a
चकाशिरे पर्वतराजकन्यामुमां यथा देवगणाः समेताः 004c
कन्दर्पबाणाभिनिपीडिताङ्गाः कृष्णागतैस्ते हृदयैर्नरेन्द्राः 005a
रङ्गावतीर्णा द्रुपदात्मजार्थं द्वेष्यान्हि चक्रुः सुहृदोऽपि तत्र 005c
अथाययुर्देवगणा विमानै रुद्रादित्या वसवोऽथाश्विनौ च 006a
साध्याश्च सर्वे मरुतस्तथैव यमं पुरस्कृत्य धनेश्वरं च 006c
दैत्याः सुपर्णाश्च महोरगाश्च देवर्षयो गुह्यकाश्चारणाश्च 007a
विश्वावसुर्नारदपर्वतौ च गन्धर्वमुख्याश्च सहाप्सरोभिः 007c
हलायुधस्तत्र च केशवश्च वृष्ण्यन्धकाश्चैव यथा प्रधानाः 008a
प्रेक्षां स्म चक्रुर्यदुपुङ्गवास्ते स्थिताश्च कृष्णस्य मते बभूवुः 008c
दृष्ट्वा हि तान्मत्तगजेन्द्ररूपान्पञ्चाभिपद्मानिव वारणेन्द्रान् 009a
भस्मावृताङ्गानिव हव्यवाहान्पार्थान्प्रदध्यौ स यदुप्रवीरः 009c
शशंस रामाय युधिष्ठिरं च भीमं च जिष्णुं च यमौ च वीरौ 010a
शनैः शनैस्तांश्च निरीक्ष्य रामो जनार्दनं प्रीतमना ददर्श 010c
अन्ये तु नानानृपपुत्रपौत्राः कृष्णागतैर्नेत्रमनःस्वभावैः 011a
व्यायच्छमाना ददृशुर्भ्रमन्तीं सन्दष्टदन्तच्छदताम्रवक्त्राः 011c
तथैव पार्थाः पृथुबाहवस्ते वीरौ यमौ चैव महानुभावौ 012a
तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे कन्दर्पबाणाभिहता बभूवुः 012c
देवर्षिगन्धर्वसमाकुलं तत्सुपर्णनागासुरसिद्धजुष्टम् 013a
दिव्येन गन्धेन समाकुलं च दिव्यैश्च माल्यैरवकीर्यमाणम् 013c
महास्वनैर्दुन्दुभिनादितैश्च बभूव तत्सङ्कुलमन्तरिक्षम् 014a
विमानसम्बाधमभूत्समन्तात्सवेणुवीणापणवानुनादम् 014c
ततस्तु ते राजगणाः क्रमेण कृष्णानिमित्तं नृप विक्रमन्तः 015a
तत्कार्मुकं संहननोपपन्नं सज्यं न शेकुस्तरसापि कर्तुम् 015c
ते विक्रमन्तः स्फुरता दृढेन निष्कृष्यमाणा धनुषा नरेन्द्राः 016a
विचेष्टमाना धरणीतलस्था दीना अदृश्यन्त विभग्नचित्ताः 016c
हाहाकृतं तद्धनुषा दृढेन निष्पिष्टभग्नाङ्गदकुण्डलं च 017a
कृष्णानिमित्तं विनिवृत्तभावं राज्ञां तदा मण्डलमार्तमासीत् 017c
तस्मिंस्तु सम्भ्रान्तजने समाजे निक्षिप्तवादेषु नराधिपेषु 018a
कुन्तीसुतो जिष्णुरियेष कर्तुं सज्यं धनुस्तत्सशरं स वीरः 018c