धृष्टद्युम्न उवाच 001
दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः 001a
विविंशतिर्विकर्णश्च सहो दुःशासनः समः 001c
युयुत्सुर्वातवेगश्च भीमवेगधरस्तथा 002a
उग्रायुधो बलाकी च कनकायुर्विरोचनः 002c
सुकुण्डलश्चित्रसेनः सुवर्चाः कनकध्वजः 003a
नन्दको बाहुशाली च कुण्डजो विकटस्तथा 003c
एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः 004a
कर्णेन सहिता वीरास्त्वदर्थं समुपागताः 004c
शतसङ्ख्या महात्मानः प्रथिताः क्षत्रियर्षभाः 004e
शकुनिश्च बलश्चैव वृषकोऽथ बृहद्बलः 005a
एते गान्धारराजस्य सुताः सर्वे समागताः 005c
अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ 006a
समवेतौ महात्मानौ त्वदर्थे समलङ्कृतौ 006c
बृहन्तो मणिमांश्चैव दण्डधारश्च वीर्यवान् 007a
सहदेवो जयत्सेनो मेघसन्धिश्च मागधः 007c
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च 008a
वार्धक्षेमिः सुवर्चाश्च सेनाबिन्दुश्च पार्थिवः 008c
अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा 009a
सुमित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा 009c
सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा 010a
अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः 010c
समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान् 011a
जलसन्धः पितापुत्रौ सुदण्डो दण्ड एव च 011c
पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान् 012a
कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा 012c
मद्रराजस्तथा शल्यः सहपुत्रो महारथः 013a
रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च 013c
कौरव्यः सोमदत्तश्च पुत्राश्चास्य महारथाः 014a
समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः 014c
सुदक्षिणश्च काम्बोजो दृढधन्वा च कौरवः 015a
बृहद्बलः सुषेणश्च शिबिरौशीनरस्तथा 015c
सङ्कर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान् 016a
साम्बश्च चारुदेष्णश्च सारणोऽथ गदस्तथा 016c
अक्रूरः सात्यकिश्चैव उद्धवश्च महाबलः 017a
कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च 017c
विडूरथश्च कङ्कश्च समीकः सारमेजयः 018a
वीरो वातपतिश्चैव झिल्ली पिण्डारकस्तथा 018c
उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः 018e
भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः 019a
बृहद्रथो बाह्लिकश्च श्रुतायुश्च महारथः 019c
उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ 020a
वत्सराजश्च धृतिमान्कोसलाधिपतिस्तथा 020c
एते चान्ये च बहवो नानाजनपदेश्वराः 021a
त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि 021c
एते वेत्स्यन्ति विक्रान्तास्त्वदर्थं लक्ष्यमुत्तमम् 022a
विध्येत य इमं लक्ष्यं वरयेथाः शुभेऽद्य तम् 022c