001 वैशम्पायन उवाच
एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय 001a
राज्ञा दक्षिणपाञ्चालान्द्रुपदेनाभिरक्षितान् 001c
ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम् 002a
ददृशुः पाण्डवा राजन्पथि द्वैपायनं तदा 002c
तस्मै यथावत्सत्कारं कृत्वा तेन च सान्त्विताः 003a
कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम् 003c
पश्यन्तो रमणीयानि वनानि च सरांसि च 004a
तत्र तत्र वसन्तश्च शनैर्जग्मुर्महारथाः 004c
स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः 005a
आनुपूर्व्येण सम्प्राप्ताः पाञ्चालान्कुरुनन्दनाः 005c
ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः 006a
कुम्भकारस्य शालायां निवेशं चक्रिरे तदा 006c
तत्र भैक्षं समाजह्रुर्ब्राह्मीं वृत्तिं समाश्रिताः 007a
तांश्च प्राप्तांस्तदा वीराञ्जज्ञिरे न नराः क्वचित् 007c
यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने 008a
कृष्णां दद्यामिति सदा न चैतद्विवृणोति सः 008c
सोऽन्वेषमाणः कौन्तेयान्पाञ्चाल्यो जनमेजय 009a
दृढं धनुरनायम्यं कारयामास भारत 009c
यन्त्रं वैहायसं चापि कारयामास कृत्रिमम् 010a
तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम् 010c
द्रुपद उवाच 011
इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः 011a
अतीत्य लक्ष्यं यो वेद्धा स लब्धा मत्सुतामिति 011c
वैशम्पायन उवाच 012
इति स द्रुपदो राजा सर्वतः समघोषयत् 012a
तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत 012c
ऋषयश्च महात्मानः स्वयंवरदिदृक्षया 013a
दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप 013c
ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन् 014a
तेऽभ्यर्चिता राजगणा द्रुपदेन महात्मना 014c
ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः 015a
शिशुमारपुरं प्राप्य न्यविशंस्ते च पार्थिवाः 015c
प्रागुत्तरेण नगराद्भूमिभागे समे शुभे 016a
समाजवाटः शुशुभे भवनैः सर्वतो वृतः 016c
प्राकारपरिखोपेतो द्वारतोरणमण्डितः 017a
वितानेन विचित्रेण सर्वतः समवस्तृतः 017c
तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः 018a
चन्दनोदकसिक्तश्च माल्यदामैश्च शोभितः 018c
कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः 019a
सर्वतः संवृतैर्नद्धः प्रासादैः सुकृतोच्छ्रितैः 019c
सुवर्णजालसंवीतैर्मणिकुट्टिमभूषितैः 020a
सुखारोहणसोपानैर्महासनपरिच्छदैः 020c
अग्राम्यसमवच्छन्नैरगुरूत्तमवासितैः 021a
हंसाच्छवर्णैर्बहुभिरायोजनसुगन्धिभिः 021c
असम्बाधशतद्वारैः शयनासनशोभितैः 022a
बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव 022c
तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः 023a
स्पर्धमानास्तदान्योन्यं निषेदुः सर्वपार्थिवाः 023c
तत्रोपविष्टान्ददृशुर्महासत्त्वपराक्रमान् 024a
राजसिंहान्महाभागान्कृष्णागुरुविभूषितान् 024c
महाप्रसादान्ब्रह्मण्यान्स्वराष्ट्रपरिरक्षिणः 025a
प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः 025c
मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः 026a
कृष्णादर्शनतुष्ट्यर्थं सर्वतः समुपाविशन् 026c
ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन् 027a
ऋद्धिं पाञ्चालराजस्य पश्यन्तस्तामनुत्तमाम् 027c
ततः समाजो ववृधे स राजन्दिवसान्बहून् 028a
रत्नप्रदानबहुलः शोभितो नटनर्तकैः 028c
वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे 029a
आप्लुताङ्गी सुवसना सर्वाभरणभूषिता 029c
वीरकांस्यमुपादाय काञ्चनं समलङ्कृतम् 030a
अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ 030c
पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः 031a
परिस्तीर्य जुहावाग्निमाज्येन विधिना तदा 031c
स तर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च 032a
वारयामास सर्वाणि वादित्राणि समन्ततः 032c
निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशां पते 033a
रङ्गमध्यगतस्तत्र मेघगम्भीरया गिरा 033c
वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम् 033e
इदं धनुर्लक्ष्यमिमे च बाणाः शृण्वन्तु मे पार्थिवाः सर्व एव 034a
यन्त्रच्छिद्रेणाभ्यतिक्रम्य लक्ष्यं समर्पयध्वं खगमैर्दशार्धैः 034c
एतत्कर्ता कर्म सुदुष्करं यः कुलेन रूपेण बलेन युक्तः 035a
तस्याद्य भार्या भगिनी ममेयं कृष्णा भवित्री न मृषा ब्रवीमि 035c
तानेवमुक्त्वा द्रुपदस्य पुत्रः पश्चादिदं द्रौपदीमभ्युवाच 036a
नाम्ना च गोत्रेण च कर्मणा च सङ्कीर्तयंस्तान्नृपतीन्समेतान् 036c