001 वैशम्पायन उवाच
ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः 001a
प्रययुर्द्रौपदीं द्रष्टुं तं च देवमहोत्सवम् 001c
ते प्रयाता नरव्याघ्रा मात्रा सह परन्तपाः 002a
ब्राह्मणान्ददृशुर्मार्गे गच्छतः सगणान्बहून् 002c
तानूचुर्ब्राह्मणा राजन्पाण्डवान्ब्रह्मचारिणः 003a
क्व भवन्तो गमिष्यन्ति कुतो वागच्छतेति ह 003c
004 युधिष्ठिर उवाच
आगतानेकचक्रायाः सोदर्यान्देवदर्शिनः 004a
भवन्तो हि विजानन्तु सहितान्मातृचारिणः 004c
005 ब्राह्मणा ऊचुः
गच्छताद्यैव पाञ्चालान्द्रुपदस्य निवेशनम् 005a
स्वयंवरो महांस्तत्र भविता सुमहाधनः 005c
एकसार्थं प्रयाताः स्मो वयमप्यत्र गामिनः 006a
तत्र ह्यद्भुतसङ्काशो भविता सुमहोत्सवः 006c
यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः 007a
वेदीमध्यात्समुत्पन्ना पद्मपत्रनिभेक्षणा 007c
दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी 008a
धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः 008c
यो जातः कवची खड्गी सशरः सशरासनः 009a
सुसमिद्धे महाबाहुः पावके पावकप्रभः 009c
स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा 010a
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति 010c
तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम् 011a
गच्छामहे वयं द्रष्टुं तं च देवमहोत्सवम् 011c
राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः 012a
स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः 012c
तरुणा दर्शनीयाश्च नानादेशसमागताः 013a
महारथाः कृतास्त्राश्च समुपैष्यन्ति भूमिपाः 013c
ते तत्र विविधान्दायान्विजयार्थं नरेश्वराः 014a
प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः 014c
प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयंवरम् 015a
अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम् 015c
नटा वैतालिकाश्चैव नर्तकाः सूतमागधाः 016a
नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः 016c
एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च 017a
सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्स्यथ 017c
दर्शनीयांश्च वः सर्वान्देवरूपानवस्थितान् 018a
समीक्ष्य कृष्णा वरयेत्सङ्गत्यान्यतमं वरम् 018c
अयं भ्राता तव श्रीमान्दर्शनीयो महाभुजः 019a
नियुध्यमानो विजयेत्सङ्गत्या द्रविणं बहु 019c
युधिष्ठिर उवाच 020
परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम् 020a
भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम् 020c