001 अर्जुन उवाच अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित् 001a
पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव 001c
002 गन्धर्व उवाच यवीयान्देवलस्यैष वने भ्राता तपस्यति 002a
धौम्य उत्कोचके तीर्थे तं वृणुध्वं यदीच्छथ 002c
003 वैशम्पायन उवाच ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि 003a
गन्धर्वाय तदा प्रीतो वचनं चेदमब्रवीत् 003c
त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम 004a
कर्मकाले ग्रहीष्यामि स्वस्ति तेऽस्त्विति चाब्रवीत् 004c
तेऽन्योन्यमभिसम्पूज्य गन्धर्वः पाण्डवाश्च ह 005a
रम्याद्भागीरथीकच्छाद्यथाकामं प्रतस्थिरे 005c
तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते 006a
तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत 006c
तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः 007a
पाद्येन फलमूलेन पौरोहित्येन चैव ह 007c
ते तदाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः 008a
तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम् 008c
मातृषष्ठास्तु ते तेन गुरुणा सङ्गतास्तदा 009a
नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः 009c
स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः 010a
तेन धर्मविदा पार्था याज्याः सर्वविदा कृताः 010c
वीरांस्तु स हि तान्मेने प्राप्तराज्यान्स्वधर्मतः 011a
बुद्धिवीर्यबलोत्साहैर्युक्तान्देवानिवापरान् 011c
कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः 012a
मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम् 012c