001 अर्जुन उवाच
राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे 001a
कारणं किं पुरस्कृत्य भार्या वै सन्नियोजिता 001c
जानता च परं धर्मं लोक्यं तेन महात्मना 002a
अगम्यागमनं कस्माद्वसिष्ठेन महात्मना 002c
कृतं तेन पुरा सर्वं वक्तुमर्हसि पृच्छतः 002e
003 गन्धर्व उवाच
धनञ्जय निबोधेदं यन्मां त्वं परिपृच्छसि 003a
वसिष्ठं प्रति दुर्धर्षं तथामित्रसहं नृपम् 003c
कथितं ते मया पूर्वं यथा शप्तः स पार्थिवः 004a
शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना 004c
स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः 005a
निर्जगाम पुराद्राजा सहदारः परन्तपः 005c
अरण्यं निर्जनं गत्वा सदारः परिचक्रमे 006a
नानामृगगणाकीर्णं नानासत्त्वसमाकुलम् 006c
नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम् 007a
अरण्यं घोरसन्नादं शापग्रस्तः परिभ्रमन् 007c
स कदाचित्क्षुधाविष्टो मृगयन्भक्षमात्मनः 008a
ददर्श सुपरिक्लिष्टः कस्मिंश्चिद्वननिर्झरे 008c
ब्राह्मणीं ब्राह्मणं चैव मैथुनायोपसङ्गतौ 008e
तौ समीक्ष्य तु वित्रस्तावकृतार्थौ प्रधावितौ 009a
तयोश्च द्रवतोर्विप्रं जगृहे नृपतिर्बलात् 009c
दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत 010a
शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि सुव्रत 010c
आदित्यवंशप्रभवस्त्वं हि लोकपरिश्रुतः 011a
अप्रमत्तः स्थितो धर्मे गुरुशुश्रूषणे रतः 011c
शापं प्राप्तोऽसि दुर्धर्ष न पापं कर्तुमर्हसि 012a
ऋतुकाले तु सम्प्राप्ते भर्त्रास्म्यद्य समागता 012c
अकृतार्था ह्यहं भर्त्रा प्रसवार्थश्च मे महान् 013a
प्रसीद नृपतिश्रेष्ठ भर्ता मेऽयं विसृज्यताम् 013c
एवं विक्रोशमानायास्तस्याः स सुनृशंसकृत् 014a
भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम् 014c
तस्याः क्रोधाभिभूताया यदश्रु न्यपतद्भुवि 015a
सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत् 015c
ततः सा शोकसन्तप्ता भर्तृव्यसनदुःखिता 016a
कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा 016c
यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत् 017a
प्रेक्षन्त्या भक्षितो मेऽद्य प्रभुर्भर्ता महायशाः 017c
तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः 018a
पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम् 018c
यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः 019a
तेन सङ्गम्य ते भार्या तनयं जनयिष्यति 019c
स ते वंशकरः पुत्रो भविष्यति नृपाधम 019e
एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा 020a
तस्यैव सन्निधौ दीप्तं प्रविवेश हुताशनम् 020c
वसिष्ठश्च महाभागः सर्वमेतदपश्यत 021a
ज्ञानयोगेन महता तपसा च परन्तप 021c
मुक्तशापश्च राजर्षिः कालेन महता ततः 022a
ऋतुकालेऽभिपतितो मदयन्त्या निवारितः 022c
न हि सस्मार नृपतिस्तं शापं शापमोहितः 023a
देव्याः सोऽथ वचः श्रुत्वा स तस्या नृपसत्तमः 023c
तं च शापमनुस्मृत्य पर्यतप्यद्भृशं तदा 023e
एतस्मात्कारणाद्राजा वसिष्ठं सन्न्ययोजयत् 024a
स्वदारे भरतश्रेष्ठ शापदोषसमन्वितः 024c