001 गन्धर्व उवाच
एवमुक्तः स विप्रर्षिर्वसिष्ठेन महात्मना 001a
न्ययच्छदात्मनः कोपं सर्वलोकपराभवात् 001c
ईजे च स महातेजाः सर्ववेदविदां वरः 002a
ऋषी राक्षससत्रेण शाक्तेयोऽथ पराशरः 002c
ततो वृद्धांश्च बालांश्च राक्षसान्स महामुनिः 003a
ददाह वितते यज्ञे शक्तेर्वधमनुस्मरन् 003c
न हि तं वारयामास वसिष्ठो रक्षसां वधात् 004a
द्वितीयामस्य मा भाङ्क्षं प्रतिज्ञामिति निश्चयात् 004c
त्रयाणां पावकानां स सत्रे तस्मिन्महामुनिः 005a
आसीत्पुरस्ताद्दीप्तानां चतुर्थ इव पावकः 005c
तेन यज्ञेन शुभ्रेण हूयमानेन युक्तितः 006a
तद्विदीपितमाकाशं सूर्येणेव घनात्यये 006c
तं वसिष्ठादयः सर्वे मुनयस्तत्र मेनिरे 007a
तेजसा दिवि दीप्यन्तं द्वितीयमिव भास्करम् 007c
ततः परमदुष्प्रापमन्यैर्ऋषिरुदारधीः 008a
समापिपयिषुः सत्रं तमत्रिः समुपागमत् 008c
तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुम् 009a
उपाजग्मुरमित्रघ्न रक्षसां जीवितेप्सया 009c
पुलस्त्यस्तु वधात्तेषां रक्षसां भरतर्षभ 010a
उवाचेदं वचः पार्थ पराशरमरिन्दमम् 010c
कच्चित्तातापविघ्नं ते कच्चिन्नन्दसि पुत्रक 011a
अजानतामदोषाणां सर्वेषां रक्षसां वधात् 011c
प्रजोच्छेदमिमं मह्यं सर्वं सोमपसत्तम 012a
अधर्मिष्ठं वरिष्ठः सन्कुरुषे त्वं पराशर 012c
राजा कल्माषपादश्च दिवमारोढुमिच्छति 012e
ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः 013a
ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः 013c
सर्वमेतद्वसिष्ठस्य विदितं वै महामुने 013e
रक्षसां च समुच्छेद एष तात तपस्विनाम् 014a
निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन 014c
स सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते 014e
एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता 015a
तदा समापयामास सत्रं शाक्तिः पराशरः 015c
सर्वराक्षससत्राय सम्भृतं पावकं मुनिः 016a
उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने 016c
स तत्राद्यापि रक्षांसि वृक्षानश्मान एव च 017a
भक्षयन्दृश्यते वह्निः सदा पर्वणि पर्वणि 017c