001 और्व उवाच
उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा 001a
सर्वलोकविनाशाय न सा मे वितथा भवेत् 001c
वृथारोषप्रतिज्ञो हि नाहं जीवितुमुत्सहे 002a
अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम् 002c
यो हि कारणतः क्रोधं सञ्जातं क्षन्तुमर्हति 003a
नालं स मनुजः सम्यक्त्रिवर्गं परिरक्षितुम् 003c
अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता 004a
स्थाने रोषः प्रयुक्तः स्यान्नृपैः स्वर्गजिगीषुभिः 004c
अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा 005a
आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे 005c
सामरैर्हि यदा लोकैर्भृगूणां क्षत्रियाधमैः 006a
आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविषत् 006c
आपूर्णकोशाः किल मे मातरः पितरस्तथा 007a
भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम् 007c
तान्भृगूणां तदा दारान्कश्चिन्नाभ्यवपद्यत 008a
यदा तदा दधारेयमूरुणैकेन मां शुभा 008c
प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते 009a
तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते 009c
यदा तु प्रतिषेद्धारं पापो न लभते क्वचित् 010a
तिष्ठन्ति बहवो लोके तदा पापेषु कर्मसु 010c
जानन्नपि च यः पापं शक्तिमान्न नियच्छति 011a
ईशः सन्सोऽपि तेनैव कर्मणा सम्प्रयुज्यते 011c
राजभिश्चेश्वरैश्चैव यदि वै पितरो मम 012a
शक्तैर्न शकिता त्रातुमिष्टं मत्वेह जीवितम् 012c
अत एषामहं क्रुद्धो लोकानामीश्वरोऽद्य सन् 013a
भवतां तु वचो नाहमलं समतिवर्तितुम् 013c
मम चापि भवेदेतदीश्वरस्य सतो महत् 014a
उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम् 014c
यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति 015a
दहेदेष च मामेव निगृहीतः स्वतेजसा 015c
भवतां च विजानामि सर्वलोकहितेप्सुताम् 016a
तस्माद्विदध्वं यच्छ्रेयो लोकानां मम चेश्वराः 016c
017 पितर ऊचुः
य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति 017a
अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः 017c
आपोमयाः सर्वरसाः सर्वमापोमयं जगत् 018a
तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम 018c
अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ 019a
मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः 019c
एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति 020a
न चैव सामरा लोका गमिष्यन्ति पराभवम् 020c
021 वसिष्ठ उवाच
ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये 021a
उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ 021c
महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः 022a
तमग्निमुद्गिरन्वक्त्रात्पिबत्यापो महोदधौ 022c
तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि 023a
पराशर परान्धर्माञ्जानञ्ज्ञानवतां वर 023c