001 ब्राह्मण्युवाच नाहं गृह्णामि वस्तात दृष्टीर्नास्ति रुषान्विता 001a
अयं तु भार्गवो नूनमूरुजः कुपितोऽद्य वः 001c
तेन चक्षूंषि वस्तात नूनं कोपान्महात्मना 002a
स्मरता निहतान्बन्धूनादत्तानि न संशयः 002c
गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः 003a
तदायमूरुणा गर्भो मया वर्षशतं धृतः 003c
षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव हि 004a
विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया 004c
सोऽयं पितृवधान्नूनं क्रोधाद्वो हन्तुमिच्छति 005a
तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः 005c
तमिमं तात याचध्वमौर्वं मम सुतोत्तमम् 006a
अयं वः प्रणिपातेन तुष्टो दृष्टीर्विमोक्ष्यति 006c
007 गन्धर्व उवाच एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम् 007a
ऊचुः प्रसीदेति तदा प्रसादं च चकार सः 007c
अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः 008a
स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत 008c
चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस्ततो नृपाः 009a
भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम् 009c
स चक्रे तात लोकानां विनाशाय महामनाः 010a
सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः 010c
इच्छन्नपचितिं कर्तुं भृगूणां भृगुसत्तमः 011a
सर्वलोकविनाशाय तपसा महतैधितः 011c
तापयामास लोकान्स सदेवासुरमानुषान् 012a
तपसोग्रेण महता नन्दयिष्यन्पितामहान् 012c
ततस्तं पितरस्तात विज्ञाय भृगुसत्तमम् 013a
पितृलोकादुपागम्य सर्व ऊचुरिदं वचः 013c
और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक 014a
प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः 014c
नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः 015a
वधोऽभ्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम् 015c
आयुषा हि प्रकृष्टेन यदा नः खेद आविशत् 016a
तदास्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम् 016c
निखातं तद्धि वै वित्तं केनचिद्भृगुवेश्मनि 017a
वैरायैव तदा न्यस्तं क्षत्रियान्कोपयिष्णुभिः 017c
किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजर्षभ 017e
यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः 018a
तदास्माभिरयं दृष्ट उपायस्तात सम्मतः 018c
आत्महा च पुमांस्तात न लोकाल्ँलभते शुभान् 019a
ततोऽस्माभिः समीक्ष्यैवं नात्मनात्मा विनाशितः 019c
न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि 020a
नियच्छेदं मनः पापात्सर्वलोकपराभवात् 020c
न हि नः क्षत्रियाः केचिन्न लोकाः सप्त पुत्रक 021a
दूषयन्ति तपस्तेजः क्रोधमुत्पतितं जहि 021c