001 गन्धर्व उवाच
आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायत 001a
शक्तेः कुलकरं राजन्द्वितीयमिव शक्तिनम् 001c
जातकर्मादिकास्तस्य क्रियाः स मुनिपुङ्गवः 002a
पौत्रस्य भरतश्रेष्ठ चकार भगवान्स्वयम् 002c
परासुश्च यतस्तेन वसिष्ठः स्थापितस्तदा 003a
गर्भस्थेन ततो लोके पराशर इति स्मृतः 003c
अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा 004a
जन्मप्रभृति तस्मिंश्च पितरीव व्यवर्तत 004c
स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत 005a
मातुः समक्षं कौन्तेय अदृश्यन्त्याः परन्तप 005c
तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः 006a
अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वन्ती तमुवाच ह 006c
मा तात तात तातेति न ते तातो महामुनिः 007a
रक्षसा भक्षितस्तात तव तातो वनान्तरे 007c
मन्यसे यं तु तातेति नैष तातस्तवानघ 008a
आर्यस्त्वेष पिता तस्य पितुस्तव महात्मनः 008c
स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः 009a
सर्वलोकविनाशाय मतिं चक्रे महामनाः 009c
तं तथा निश्चितात्मानं महात्मानं महातपाः 010a
वसिष्ठो वारयामास हेतुना येन तच्छृणु 010c
011 वसिष्ठ उवाच
कृतवीर्य इति ख्यातो बभूव नृपतिः क्षितौ 011a
याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः 011c
स तानग्रभुजस्तात धान्येन च धनेन च 012a
सोमान्ते तर्पयामास विपुलेन विशां पतिः 012c
तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कदाचन 013a
बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम् 013c
ते भृगूणां धनं ज्ञात्वा राजानः सर्व एव ह 014a
याचिष्णवोऽभिजग्मुस्तांस्तात भार्गवसत्तमान् 014c
भूमौ तु निदधुः केचिद्भृगवो धनमक्षयम् 015a
ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् 015c
भृगवस्तु ददुः केचित्तेषां वित्तं यथेप्सितम् 016a
क्षत्रियाणां तदा तात कारणान्तरदर्शनात् 016c
ततो महीतलं तात क्षत्रियेण यदृच्छया 017a
खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि 017c
तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः 017e
अवमन्य ततः कोपाद्भृगूंस्ताञ्शरणागतान् 018a
निजघ्नुस्ते महेष्वासाः सर्वांस्तान्निशितैः शरैः 018c
आ गर्भादनुकृन्तन्तश्चेरुश्चैव वसुन्धराम् 018e
तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा 019a
भृगुपत्न्यो गिरिं तात हिमवन्तं प्रपेदिरे 019c
तासामन्यतमा गर्भं भयाद्दाधार तैजसम् 020a
ऊरुणैकेन वामोरूर्भर्तुः कुलविवृद्धये 020c
ददृशुर्ब्राह्मणीं तां ते दीप्यमानां स्वतेजसा 020e
अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह 021a
मुष्णन्दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः 021c
ततश्चक्षुर्वियुक्तास्ते गिरिदुर्गेषु बभ्रमुः 021e
ततस्ते मोघसङ्कल्पा भयार्ताः क्षत्रियर्षभाः 022a
ब्राह्मणीं शरणं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम् 022c
ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः 023a
ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः 023c
भगवत्याः प्रसादेन गच्छेत्क्षत्रं सचक्षुषम् 024a
उपारम्य च गच्छेम सहिताः पापकर्मणः 024c
सपुत्रा त्वं प्रसादं नः सर्वेषां कर्तुमर्हसि 025a
पुनर्दृष्टिप्रदानेन राज्ञः सन्त्रातुमर्हसि 025c