001 वसिष्ठ उवाच मा भैः पुत्रि न भेतव्यं रक्षसस्ते कथञ्चन 001a
नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम् 001c
राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि 002a
स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः 002c
003 गन्धर्व उवाच तमापतन्तं सम्प्रेक्ष्य वसिष्ठो भगवानृषिः 003a
वारयामास तेजस्वी हुङ्कारेणैव भारत 003c
मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा 004a
मोक्षयामास वै घोराद्राक्षसाद्राजसत्तमम् 004c
स हि द्वादश वर्षाणि वसिष्ठस्यैव तेजसा 005a
ग्रस्त आसीद्गृहेणेव पर्वकाले दिवाकरः 005c
रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत् 006a
तेजसा रञ्जयामास सन्ध्याभ्रमिव भास्करः 006c
प्रतिलभ्य ततः सञ्ज्ञामभिवाद्य कृताञ्जलिः 007a
उवाच नृपतिः काले वसिष्ठमृषिसत्तमम् 007c
सौदासोऽहं महाभाग याज्यस्ते द्विजसत्तम 008a
अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते 008c
009 वसिष्ठ उवाच वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि तत् 009a
ब्राह्मणांश्च मनुष्येन्द्र मावमंस्थाः कदाचन 009c
010 राजोवाच नावमंस्याम्यहं ब्रह्मन्कदाचिद्ब्राह्मणर्षभान् 010a
त्वन्निदेशे स्थितः शश्वत्पूजयिष्याम्यहं द्विजान् 010c
इक्ष्वाकूणां तु येनाहमनृणः स्यां द्विजोत्तम 011a
तत्त्वत्तः प्राप्तुमिच्छामि वरं वेदविदां वर 011c
अपत्यायेप्सितां मह्यं महिषीं गन्तुमर्हसि 012a
शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये 012c
013 गन्धर्व उवाच ददानीत्येव तं तत्र राजानं प्रत्युवाच ह 013a
वसिष्ठः परमेष्वासं सत्यसन्धो द्विजोत्तमः 013c
ततः प्रतिययौ काले वसिष्ठसहितोऽनघ 014a
ख्यातं पुरवरं लोकेष्वयोध्यां मनुजेश्वरः 014c
तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्ययुस्तदा 015a
विपाप्मानं महात्मानं दिवौकस इवेश्वरम् 015c
अचिरात्स मनुष्येन्द्रो नगरीं पुण्यकर्मणाम् 016a
विवेश सहितस्तेन वसिष्ठेन महात्मना 016c
ददृशुस्तं ततो राजन्नयोध्यावासिनो जनाः 017a
पुष्येण सहितं काले दिवाकरमिवोदितम् 017c
स हि तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः 018a
अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः 018c
संसिक्तमृष्टपन्थानं पताकोच्छ्रयभूषितम् 019a
मनः प्रह्लादयामासा तस्य तत्पुरमुत्तमम् 019c
तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन 020a
अशोभत तदा तेन शक्रेणेवामरावती 020c
ततः प्रविष्टे राजेन्द्रे तस्मिन्राजनि तां पुरीम् 021a
तस्य राज्ञोऽऽज्ञया देवी वसिष्ठमुपचक्रमे 021c
ऋतावथ महर्षिः स सम्बभूव तया सह 022a
देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः 022c
अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः 023a
राज्ञाभिवादितस्तेन जगाम पुनराश्रमम् 023c
दीर्घकालधृतं गर्भं सुषाव न तु तं यदा 024a
साथ देव्यश्मना कुक्षिं निर्बिभेद तदा स्वकम् 024c
द्वादशेऽथ ततो वर्षे स जज्ञे मनुजर्षभ 025a
अश्मको नाम राजर्षिः पोतनं यो न्यवेशयत् 025c