001 गन्धर्व उवाच ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः 001a
निर्जगाम सुदुःखार्तः पुनरेवाश्रमात्ततः 001c
सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा 002a
वृक्षान्बहुविधान्पार्थ वहन्तीं तीरजान्बहून् 002c
अथ चिन्तां समापेदे पुनः पौरवनन्दन 003a
अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः 003c
ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः 004a
तस्या जले महानद्या निममज्ज सुदुःखितः 004c
अथ छित्त्वा नदी पाशांस्तस्यारिबलमर्दन 005a
समस्थं तमृषिं कृत्वा विपाशं समवासृजत् 005c
उत्ततार ततः पाशैर्विमुक्तः स महानृषिः 006a
विपाशेति च नामास्या नद्याश्चक्रे महानृषिः 006c
शोके बुद्धिं ततश्चक्रे न चैकत्र व्यतिष्ठत 007a
सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च 007c
ततः स पुनरेवर्षिर्नदीं हैमवतीं तदा 008a
चण्डग्राहवतीं दृष्ट्वा तस्याः स्रोतस्यवापतत् 008c
सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा 009a
शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता 009c
ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना 010a
मर्तुं न शक्यमित्युक्त्वा पुनरेवाश्रमं ययौ 010c
वध्वादृश्यन्त्यानुगत आश्रमाभिमुखो व्रजन् 011a
अथ शुश्राव सङ्गत्या वेदाध्ययननिःस्वनम् 011c
पृष्ठतः परिपूर्णार्थैः षड्भिरङ्गैरलङ्कृतम् 011e
अनुव्रजति को न्वेष मामित्येव च सोऽब्रवीत् 012a
अहं त्वदृश्यती नाम्ना तं स्नुषा प्रत्यभाषत 012c
शक्तेर्भार्या महाभाग तपोयुक्ता तपस्विनी 012e
013 वसिष्ठ उवाच पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः 013a
पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः 013c
014 अदृश्यन्त्युवाच अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते 014a
समा द्वादश तस्येह वेदानभ्यसतो मुने 014c
015 गन्धर्व उवाच एवमुक्तस्ततो हृष्टो वसिष्ठः श्रेष्ठभागृषिः 015a
अस्ति सन्तानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत 015c
ततः प्रतिनिवृत्तः स तया वध्वा सहानघ 016a
कल्माषपादमासीनं ददर्श विजने वने 016c
स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत 017a
आविष्टो रक्षसोग्रेण इयेषात्तुं ततः स्म तम् 017c
अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः 018a
भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत् 018c
असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः 019a
प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति भीषणः 019c
तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन 020a
त्वदृतेऽद्य महाभाग सर्ववेदविदां वर 020c
त्राहि मां भगवन्पापादस्माद्दारुणदर्शनात् 021a
रक्षो अत्तुमिह ह्यावां नूनमेतच्चिकीर्षति 021c