001 गन्धर्व उवाच कल्माषपाद इत्यस्मिल्ँलोके राजा बभूव ह 001a
इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि 001c
स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात् 002a
मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः 002c
स तु राजा महात्मानं वासिष्ठमृषिसत्तमम् 003a
तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि 003c
अपश्यदजितः सङ्ख्ये मुनिं प्रतिमुखागतम् 004a
शक्तिं नाम महाभागं वसिष्ठकुलनन्दनम् 004c
ज्येष्ठं पुत्रशतात्पुत्रं वसिष्ठस्य महात्मनः 004e
अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत् 005a
तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा 005c
ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः 006a
नापि राजा मुनेर्मानात्क्रोधाच्चापि जगाम ह 006c
अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः 007a
जघान कशया मोहात्तदा राक्षसवन्मुनिम् 007c
कशाप्रहाराभिहतस्ततः स मुनिसत्तमः 008a
तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः 008c
हंसि राक्षसवद्यस्माद्राजापसद तापसम् 009a
तस्मात्त्वमद्य प्रभृति पुरुषादो भविष्यसि 009c
मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम् 010a
गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना 010c
ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः 011a
वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत 011c
तयोर्विवदतोरेवं समीपमुपचक्रमे 012a
ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् 012c
ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः 013a
ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा 013c
अन्तर्धाय तदात्मानं विश्वामित्रोऽपि भारत 014a
तावुभावुपचक्राम चिकीर्षन्नात्मनः प्रियम् 014c
स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः 015a
जगाम शरणं शक्तिं प्रसादयितुमर्हयन् 015c
तस्य भावं विदित्वा स नृपतेः कुरुनन्दन 016a
विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति 016c
स शापात्तस्य विप्रर्षेर्विश्वामित्रस्य चाज्ञया 017a
राक्षसः किङ्करो नाम विवेश नृपतिं तदा 017c
रक्षसा तु गृहीतं तं विदित्वा स मुनिस्तदा 018a
विश्वामित्रोऽप्यपक्रामत्तस्माद्देशादरिन्दम 018c
ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना 019a
बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह 019c
ददर्श तं द्विजः कश्चिद्राजानं प्रस्थितं पुनः 020a
ययाचे क्षुधितश्चैनं समांसं भोजनं तदा 020c
तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा 021a
आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तमिति सान्त्वयन् 021c
निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् 022a
इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः 022c
अन्तर्गतं तु तद्राज्ञस्तदा ब्राह्मणभाषितम् 023a
सोऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः 023c
ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम् 024a
उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् 024c
गच्छामुष्मिन्नसौ देशे ब्राह्मणो मां प्रतीक्षते 025a
अन्नार्थी त्वं तमन्नेन समांसेनोपपादय 025c
एवमुक्तस्तदा सूदः सोऽनासाद्यामिषं क्वचित् 026a
निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः 026c
राजा तु रक्षसाविष्टः सूदमाह गतव्यथः 027a
अप्येनं नरमांसेन भोजयेति पुनः पुनः 027c
तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम् 028a
गत्वा जहार त्वरितो नरमांसमपेतभीः 028c
स तत्संस्कृत्य विधिवदन्नोपहितमाशु वै 029a
तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने 029c
स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः 030a
अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः 030c
यस्मादभोज्यमन्नं मे ददाति स नराधिपः 031a
तस्मात्तस्यैव मूढस्य भविष्यत्यत्र लोलुपा 031c
सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा 032a
उद्वेजनीयो भूतानां चरिष्यति महीमिमाम् 032c
द्विरनुव्याहृते राज्ञः स शापो बलवानभूत् 033a
रक्षोबलसमाविष्टो विसञ्ज्ञश्चाभवत्तदा 033c
ततः स नृपतिश्रेष्ठो राक्षसोपहतेन्द्रियः 034a
उवाच शक्तिं तं दृष्ट्वा नचिरादिव भारत 034c
यस्मादसदृशः शापः प्रयुक्तोऽयं त्वया मयि 035a
तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं मानुषानहम् 035c
एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयुज्य सः 036a
शक्तिनं भक्षयामास व्याघ्रः पशुमिवेप्सितम् 036c
शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस्ततः पुनः 037a
वसिष्ठस्यैव पुत्रेषु तद्रक्षः सन्दिदेश ह 037c
स ताञ्शतावरान्पुत्रान्वसिष्ठस्य महात्मनः 038a
भक्षयामास सङ्क्रुद्धः सिंहः क्षुद्रमृगानिव 038c
वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान् 039a
धारयामास तं शोकं महाद्रिरिव मेदिनीम् 039c
चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः 040a
न त्वेव कुशिकोच्छेदं मेने मतिमतां वरः 040c
स मेरुकूटादात्मानं मुमोच भगवानृषिः 041a
शिरस्तस्य शिलायां च तूलराशाविवापतत् 041c
न ममार च पातेन स यदा तेन पाण्डव 042a
तदाग्निमिद्ध्वा भगवान्संविवेश महावने 042c
तं तदा सुसमिद्धोऽपि न ददाह हुताशनः 043a
दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः 043c
स समुद्रमभिप्रेत्य शोकाविष्टो महामुनिः 044a
बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदम्भसि 044c
स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः 045a
जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति 045c