001 अर्जुन उवाच किन्निमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः 001a
वसतोराश्रमे पुण्ये शंस नः सर्वमेव तत् 001c
002 गन्धर्व उवाच इदं वासिष्ठमाख्यानं पुराणं परिचक्षते 002a
पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे 002c
कन्यकुब्जे महानासीत्पार्थिवो भरतर्षभ 003a
गाधीति विश्रुतो लोके सत्यधर्मपरायणः 003c
तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः 004a
विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः 004c
स चचार सहामात्यो मृगयां गहने वने 005a
मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु 005c
व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः 006a
आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति 006c
तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः 007a
विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया 007c
पाद्यार्घ्याचमनीयेन स्वागतेन च भारत 008a
तथैव प्रतिजग्राह वन्येन हविषा तथा 008c
तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः 009a
उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः 009c
ग्राम्यारण्या ओषधीश्च दुदुहे पय एव च 010a
षड्रसं चामृतरसं रसायनमनुत्तमम् 010c
भोजनीयानि पेयानि भक्ष्याणि विविधानि च 011a
लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुन 011c
तैः कामैः सर्वसम्पूर्णैः पूजितः स महीपतिः 012a
सामात्यः सबलश्चैव तुतोष स भृशं नृपः 012c
षडायतां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम् 013a
मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम् 013c
सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम् 014a
पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम् 014c
अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम् 015a
अब्रवीच्च भृशं तुष्टो विश्वामित्रो मुनिं तदा 015c
अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः 016a
नन्दिनीं सम्प्रयच्छस्व भुङ्क्ष्व राज्यं महामुने 016c
017 वसिष्ठ उवाच देवतातिथिपित्रर्थमाज्यार्थं च पयस्विनी 017a
अदेया नन्दिनीयं मे राज्येनापि तवानघ 017c
018 विश्वामित्र उवाच क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः 018a
ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु 018c
अर्बुदेन गवां यस्त्वं न ददासि ममेप्सिताम् 019a
स्वधर्मं न प्रहास्यामि नयिष्ये ते बलेन गाम् 019c
020 वसिष्ठ उवाच बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः 020a
यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय 020c
021 गन्धर्व उवाच एवमुक्तस्तदा पार्थ विश्वामित्रो बलादिव 021a
हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् 021c
कशादण्डप्रतिहता काल्यमाना ततस्ततः 022a
हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी 022c
आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी 023a
भृशं च ताड्यमानापि न जगामाश्रमात्ततः 023c
024 वसिष्ठ उवाच शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः 024a
बलाद्ध्रियसि मे नन्दि क्षमावान्ब्राह्मणो ह्यहम् 024c
025 गन्धर्व उवाच सा तु तेषां बलान्नन्दी बलानां भरतर्षभ 025a
विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत् 025c
026 गौरुवाच पाषाणदण्डाभिहतां क्रन्दन्तीं मामनाथवत् 026a
विश्वामित्रबलैर्घोरैर्भगवन्किमुपेक्षसे 026c
027 गन्धर्व उवाच एवं तस्यां तदा पर्थ धर्षितायां महामुनिः 027a
न चुक्षुभे न धैर्याच्च विचचाल धृतव्रतः 027c
028 वसिष्ठ उवाच क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम् 028a
क्षमा मां भजते तस्माद्गम्यतां यदि रोचते 028c
029 गौरुवाच किं नु त्यक्तास्मि भगवन्यदेवं मां प्रभाषसे 029a
अत्यक्ताहं त्वया ब्रह्मन्न शक्या नयितुं बलात् 029c
030 वसिष्ठ उवाच न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते 030a
दृढेन दाम्ना बद्ध्वैष वत्सस्ते ह्रियते बलात् 030c
031 गन्धर्व उवाच स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी 031a
ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ घोरदर्शना 031c
क्रोधरक्तेक्षणा सा गौर्हम्भारवघनस्वना 032a
विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः 032c
कशाग्रदण्डाभिहता काल्यमाना ततस्ततः 033a
क्रोधदीप्तेक्षणा क्रोधं भूय एव समादधे 033c
आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ 034a
अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत् 034c
असृजत्पह्लवान्पुच्छाच्छकृतः शबराञ्शकान् 035a
मूत्रतश्चासृजच्चापि यवनान्क्रोधमूर्च्छिता 035c
पुण्ड्रान्किरातान्द्रमिडान्सिंहलान्बर्बरांस्तथा 036a
तथैव दरदान्म्लेच्छान्फेनतः सा ससर्ज ह 036c
तैर्विसृष्टैर्महत्सैन्यं नानाम्लेच्छगणैस्तदा 037a
नानावरणसञ्छन्नैर्नानायुधधरैस्तथा 037c
अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः 037e
एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः 038a
अस्त्रवर्षेण महता काल्यमानं बलं ततः 038c
प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः 038e
न च प्राणैर्वियुज्यन्त केचित्ते सैनिकास्तदा 039a
विश्वामित्रस्य सङ्क्रुद्धैर्वासिष्ठैर्भरतर्षभ 039c
विश्वामित्रस्य सैन्यं तु काल्यमानं त्रियोजनम् 040a
क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत 040c
दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा 041a
विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत् 041c
धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् 042a
बलाबलं विनिश्चित्य तप एव परं बलम् 042c
स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम् 043a
भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे 043c
स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा 044a
तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप च 044c
अपिबच्च सुतं सोममिन्द्रेण सह कौशिकः 044e