001 वैशम्पायन उवाच स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ 001a
अर्जुनः परया प्रीत्या पूर्णचन्द्र इवाबभौ 001c
उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः 002a
जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात् 002c
वसिष्ठ इति यस्यैतदृषेर्नाम त्वयेरितम् 003a
एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे 003c
य एष गन्धर्वपते पूर्वेषां नः पुरोहितः 004a
आसीदेतन्ममाचक्ष्व क एष भगवानृषिः 004c
005 गन्धर्व उवाच तपसा निर्जितौ शश्वदजेयावमरैरपि 005a
कामक्रोधावुभौ यस्य चरणौ संववाहतुः 005c
यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः 006a
विश्वामित्रापराधेन धारयन्मन्युमुत्तमम् 006c
पुत्रव्यसनसन्तप्तः शक्तिमानपि यः प्रभुः 007a
विश्वामित्रविनाशाय न मेने कर्म दारुणम् 007c
मृतांश्च पुनराहर्तुं यः स पुत्रान्यमक्षयात् 008a
कृतान्तं नातिचक्राम वेलामिव महोदधिः 008c
यं प्राप्य विजितात्मानं महात्मानं नराधिपाः 009a
इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम् 009c
पुरोहितवरं प्राप्य वसिष्ठमृषिसत्तमम् 010a
ईजिरे क्रतुभिश्चापि नृपास्ते कुरुनन्दन 010c
स हि तान्याजयामास सर्वान्नृपतिसत्तमान् 011a
ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिरिवामरान् 011c
तस्माद्धर्मप्रधानात्मा वेदधर्मविदीप्सितः 012a
ब्राह्मणो गुणवान्कश्चित्पुरोधाः प्रविमृश्यताम् 012c
क्षत्रियेण हि जातेन पृथिवीं जेतुमिच्छता 013a
पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये 013c
महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःसरम् 014a
तस्मात्पुरोहितः कश्चिद्गुणवानस्तु वो द्विजः 014c