001 वसिष्ठ उवाच
यैषा ते तपती नाम सावित्र्यवरजा सुता 001a
तां त्वां संवरणस्यार्थे वरयामि विभावसो 001c
स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः 002a
युक्तः संवरणो भर्ता दुहितुस्ते विहङ्गम 002c
003 गन्धर्व उवाच
इत्युक्तः सविता तेन ददानीत्येव निश्चितः 003a
प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः 003c
वरः संवरणो राज्ञां त्वमृषीणां वरो मुने 004a
तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात् 004c
ततः सर्वानवद्याग्नीं तपतीं तपनः स्वयम् 005a
ददौ संवरणस्यार्थे वसिष्ठाय महात्मने 005c
प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा 005e
वसिष्ठोऽथ विसृष्टश्च पुनरेवाजगाम ह 006a
यत्र विख्यातकीर्तिः स कुरूणामृषभोऽभवत् 006c
स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना 007a
दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम् 007c
वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ 007e
कृच्छ्रे द्वादशरात्रे तु तस्य राज्ञः समापिते 008a
आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः 008c
तपसाराध्य वरदं देवं गोपतिमीश्वरम् 009a
लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा 009c
ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते 010a
जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः 010c
वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे 011a
सोऽकामयत राजर्षिर्विहर्तुं सह भार्यया 011c
ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च 012a
आदिदेश महीपालस्तमेव सचिवं तदा 012c
नृपतिं त्वभ्यनुज्ञाय वसिष्ठोऽथापचक्रमे 013a
सोऽपि राजा गिरौ तस्मिन्विजहारामरोपमः 013c
ततो द्वादश वर्षाणि काननेषु जलेषु च 014a
रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया 014c
तस्य राज्ञः पुरे तस्मिन्समा द्वादश सर्वशः 015a
न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य सर्वशः 015c
तत्क्षुधार्तैर्निरानन्दैः शवभूतैस्तदा नरैः 016a
अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम् 016c
ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः 017a
अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम् 017c
तं च पार्थिवशार्दूलमानयामास तत्पुरम् 018a
तपत्या सहितं राजन्नुषितं द्वादशीः समाः 018c
ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा 019a
तस्मिन्नृपतिशार्दूले प्रविष्टे नगरं पुनः 019c
ततः सराष्ट्रं मुमुदे तत्पुरं परया मुदा 020a
तेन पार्थिवमुख्येन भावितं भावितात्मना 020c
ततो द्वादश वर्षाणि पुनरीजे नराधिपः 021a
पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः 021c
एवमासीन्महाभागा तपती नाम पौर्विकी 022a
तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः 022c
तस्यां सञ्जनयामास कुरुं संवरणो नृपः 023a
तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन 023c