001 गन्धर्व उवाच एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दिता 001a
स तु राजा पुनर्भूमौ तत्रैव निपपात ह 001c
अमात्यः सानुयात्रस्तु तं ददर्श महावने 002a
क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम् 002c
तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं क्षितौ 003a
बभूव सोऽस्य सचिवः सम्प्रदीप्त इवाग्निना 003c
त्वरया चोपसङ्गम्य स्नेहादागतसम्भ्रमः 004a
तं समुत्थापयामास नृपतिं काममोहितम् 004c
भूतलाद्भूमिपालेशं पितेव पतितं सुतम् 005a
प्रज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च 005c
अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः 006a
उवाच चैनं कल्याण्या वाचा मधुरयोत्थितम् 006c
मा भैर्मनुजशार्दूल भद्रं चास्तु तवानघ 006e
क्षुत्पिपासापरिश्रान्तं तर्कयामास तं नृपम् 007a
पतितं पातनं सङ्ख्ये शात्रवाणां महीतले 007c
वारिणाथ सुशीतेन शिरस्तस्याभ्यषेचयत् 008a
अस्पृशन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना 008c
ततः प्रत्यागतप्राणस्तद्बलं बलवान्नृपः 009a
सर्वं विसर्जयामास तमेकं सचिवं विना 009c
ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलम् 010a
स तु राजा गिरिप्रस्थे तस्मिन्पुनरुपाविशत् 010c
ततस्तस्मिन्गिरिवरे शुचिर्भूत्वा कृताञ्जलिः 011a
आरिराधयिषुः सूर्यं तस्थावूर्ध्वभुजः क्षितौ 011c
जगाम मनसा चैव वसिष्ठमृषिसत्तमम् 012a
पुरोहितममित्रघ्नस्तदा संवरणो नृपः 012c
नक्तन्दिनमथैकस्थे स्थिते तस्मिञ्जनाधिपे 013a
अथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि 013c
स विदित्वैव नृपतिं तपत्या हृतमानसम् 014a
दिव्येन विधिना ज्ञात्वा भावितात्मा महानृषिः 014c
तथा तु नियतात्मानं स तं नृपतिसत्तमम् 015a
आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया 015c
स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिः 016a
ऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः 016c
सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितः 017a
वसिष्ठोऽहमिति प्रीत्या स चात्मानं न्यवेदयत् 017c
तमुवाच महातेजा विवस्वान्मुनिसत्तमम् 018a
महर्षे स्वागतं तेऽस्तु कथयस्व यथेच्छसि 018c