001 गन्धर्व उवाच अथ तस्यामदृश्यायां नृपतिः काममोहितः 001a
पातनः शत्रुसङ्घानां पपात धरणीतले 001c
तस्मिन्निपतिते भूमावथ सा चारुहासिनी 002a
पुनः पीनायतश्रोणी दर्शयामास तं नृपम् 002c
अथाबभाषे कल्याणी वाचा मधुरया नृपम् 003a
तं कुरूणां कुलकरं कामाभिहतचेतसम् 003c
उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिन्दम 004a
मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ 004c
एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा 005a
ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम् 005c
अथ तामसितापाङ्गीमाबभाषे नराधिपः 006a
मन्मथाग्निपरीतात्मा सन्दिग्धाक्षरया गिरा 006c
साधु मामसितापाङ्गे कामार्तं मत्तकाशिनि 007a
भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम् 007c
त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः 008a
कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति 008c
ग्रस्तमेवमनाक्रन्दे भद्रे काममहाहिना 009a
सा त्वं पीनायतश्रोणि पर्याप्नुहि शुभानने 009c
त्वय्यधीना हि मे प्राणाः किन्नरोद्गीतभाषिणि 010a
चारुसर्वानवद्याङ्गि पद्मेन्दुसदृशानने 010c
न ह्यहं त्वदृते भीरु शक्ष्ये जीवितुमात्मना 011a
तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने 011c
भक्तं मामसितापाङ्गे न परित्यक्तुमर्हसि 012a
त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि 012c
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि 013a
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते 013c
014 तपत्युवाच नाहमीशात्मनो राजन्कन्या पितृमती ह्यहम् 014a
मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम 014c
यथा हि ते मया प्राणाः सङ्गृहीता नरेश्वर 015a
दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः 015c
न चाहमीशा देहस्य तस्मान्नृपतिसत्तम 016a
समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः 016c
का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम् 017a
कन्या नाभिलषेन्नाथं भर्तारं भक्तवत्सलम् 017c
तस्मादेवङ्गते काले याचस्व पितरं मम 018a
आदित्यं प्रणिपातेन तपसा नियमेन च 018c
स चेत्कामयते दातुं तव मामरिमर्दन 019a
भविष्याम्यथ ते राजन्सततं वशवर्तिनी 019c
अहं हि तपती नाम सावित्र्यवरजा सुता 020a
अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ 020c