अर्जुन उवाच 001
तापत्य इति यद्वाक्यमुक्तवानसि मामिह 001a
तदहं ज्ञातुमिच्छामि तापत्यार्थविनिश्चयम् 001c
तपती नाम का चैषा तापत्या यत्कृते वयम् 002a
कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम् 002c
वैशम्पायन उवाच 003
एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनञ्जयम् 003a
विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम् 003c
गन्धर्व उवाच 004
हन्त ते कथयिष्यामि कथामेतां मनोरमाम् 004a
यथावदखिलां पार्थ धर्म्यां धर्मभृतां वर 004c
उक्तवानस्मि येन त्वां तापत्य इति यद्वचः 005a
तत्तेऽहं कथयिष्यामि शृणुष्वैकमना मम 005c
य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा 006a
एतस्य तपती नाम बभूवासदृशी सुता 006c
विवस्वतो वै कौन्तेय सावित्र्यवरजा विभो 007a
विश्रुता त्रिषु लोकेषु तपती तपसा युता 007c
न देवी नासुरी चैव न यक्षी न च राक्षसी 008a
नाप्सरा न च गन्धर्वी तथारूपेण काचन 008c
सुविभक्तानवद्याङ्गी स्वसितायतलोचना 009a
स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी 009c
न तस्याः सदृशं कञ्चित्त्रिषु लोकेषु भारत 010a
भर्तारं सविता मेने रूपशीलकुलश्रुतैः 010c
सम्प्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम् 011a
नोपलेभे ततः शान्तिं सम्प्रदानं विचिन्तयन् 011c
अर्थर्क्षपुत्रः कौन्तेय कुरूणामृषभो बली 012a
सूर्यमाराधयामास नृपः संवरणः सदा 012c
अर्घ्यमाल्योपहारैश्च शश्वच्च नृपतिर्यतः 013a
नियमैरुपवासैश्च तपोभिर्विविधैरपि 013c
शुश्रूषुरनहंवादी शुचिः पौरवनन्दनः 014a
अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान् 014c
ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि 015a
तपत्याः सदृशं मेने सूर्यः संवरणं पतिम् 015c
दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम् 016a
नृपोत्तमाय कौरव्य विश्रुताभिजनाय वै 016c
यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा 017a
तथा भुवि महीपालो दीप्त्या संवरणोऽभवत् 017c
यथार्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः 018a
तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः 018c
स सोममति कान्तत्वादादित्यमति तेजसा 019a
बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदामपि 019c
एवङ्गुणस्य नृपतेस्तथावृत्तस्य कौरव 020a
तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम् 020c
स कदाचिदथो राजा श्रीमानुरुयशा भुवि 021a
चचार मृगयां पार्थ पर्वतोपवने किल 021c
चरतो मृगयां तस्य क्षुत्पिपासाश्रमान्वितः 022a
ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः 022c
स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः 023a
ददर्शासदृशीं लोके कन्यामायतलोचनाम् 023c
स एक एकामासाद्य कन्यां तामरिमर्दनः 024a
तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः 024c
स हि तां तर्कयामास रूपतो नृपतिः श्रियम् 025a
पुनः सन्तर्कयामास रवेर्भ्रष्टामिव प्रभाम् 025c
गिरिप्रस्थे तु सा यस्मिन्स्थिता स्वसितलोचना 026a
स सवृक्षक्षुपलतो हिरण्मय इवाभवत् 026c
अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः 027a
अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम् 027c
जन्मप्रभृति यत्किञ्चिद्दृष्टवान्स महीपतिः 028a
रूपं न सदृशं तस्यास्तर्कयामास किञ्चन 028c
तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा 029a
न चचाल ततो देशाद्बुबुधे न च किञ्चन 029c
अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम् 030a
लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम् 030c
एवं स तर्कयामास रूपद्रविणसम्पदा 031a
कन्यामसदृशीं लोके नृपः संवरणस्तदा 031c
तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः 032a
जगाम मनसा चिन्तां काममार्गणपीडितः 032c
दह्यमानः स तीव्रेण नृपतिर्मन्मथाग्निना 033a
अप्रगल्भां प्रगल्भः स तामुवाच यशस्विनीम् 033c
कासि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि 034a
कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते 034c
त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता 035a
विभूषणमिवैतेषां भूषणानामभीप्सितम् 035c
न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम् 036a
न च भोगवतीं मन्ये न गन्धर्वीं न मानुषीम् 036c
या हि दृष्टा मया काश्चिच्छ्रुता वापि वराङ्गनाः 037a
न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि 037c
एवं तां स महीपालो बभाषे न तु सा तदा 038a
कामार्तं निर्जनेऽरण्ये प्रत्यभाषत किञ्चन 038c
ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा 039a
सौदामिनीव साभ्रेषु तत्रैवान्तरधीयत 039c
तामन्विच्छन्स नृपतिः परिचक्राम तत्तदा 040a
वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत्तदा 040c
अपश्यमानः स तु तां बहु तत्र विलप्य च 041a
निश्चेष्टः कौरवश्रेष्ठो मुहूर्तं स व्यतिष्ठत 041c