अर्जुन उवाच 001
कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः 001a
यान्तो ब्रह्मविदः सन्तः सर्वे रात्रावरिन्दम 001c
गन्धर्व उवाच 002
अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः 002a
यूयं ततो धर्षिताः स्थ मया पाण्डवनन्दन 002c
यक्षराक्षसगन्धर्वाः पिशाचोरगमानवाः 003a
विस्तरं कुरुवंशस्य श्रीमतः कथयन्ति ते 003c
नारदप्रभृतीनां च देवर्षीणां मया श्रुतम् 004a
गुणान्कथयतां वीर पूर्वेषां तव धीमताम् 004c
स्वयं चापि मया दृष्टश्चरता सागराम्बराम् 005a
इमां वसुमतीं कृत्स्नां प्रभावः स्वकुलस्य ते 005c
वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन 006a
विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् 006c
धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा 007a
पाण्डुं च कुरुशार्दूल षडेतान्कुलवर्धनान् 007c
पितॄनेतानहं पार्थ देवमानुषसत्तमान् 007e
दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः 008a
भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः 008c
उत्तमां तु मनोबुद्धिं भवतां भावितात्मनाम् 009a
जानन्नपि च वः पार्थ कृतवानिह धर्षणाम् 009c
स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति 010a
धर्षणामात्मनः पश्यन्बाहुद्रविणमाश्रितः 010c
नक्तं च बलमस्माकं भूय एवाभिवर्धते 011a
यतस्ततो मां कौन्तेय सदारं मन्युराविशत् 011c
सोऽहं त्वयेह विजितः सङ्ख्ये तापत्यवर्धन 012a
येन तेनेह विधिना कीर्त्यमानं निबोध मे 012c
ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि 013a
यस्मात्तस्मादहं पार्थ रणेऽस्मिन्विजितस्त्वया 013c
यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परन्तप 014a
नक्तं च युधि युध्येत न स जीवेत्कथञ्चन 014c
यस्तु स्यात्कामवृत्तोऽपि राजा तापत्य सङ्गरे 015a
जयेन्नक्तञ्चरान्सर्वान्स पुरोहितधूर्गतः 015c
तस्मात्तापत्य यत्किञ्चिन्नृणां श्रेय इहेप्सितम् 016a
तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः 016c
वेदे षडङ्गे निरताः शुचयः सत्यवादिनः 017a
धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः 017c
जयश्च नियतो राज्ञः स्वर्गश्च स्यादनन्तरम् 018a
यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः 018c
लाभं लब्धुमलब्धं हि लब्धं च परिरक्षितुम् 019a
पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् 019c
पुरोहितमते तिष्ठेद्य इच्छेत्पृथिवीं नृपः 020a
प्राप्तुं मेरुवरोत्तंसां सर्वशः सागराम्बराम् 020c
न हि केवलशौर्येण तापत्याभिजनेन च 021a
जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित् 021c
तस्मादेवं विजानीहि कुरूणां वंशवर्धन 022a
ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम् 022c