वैशम्पायन उवाच 001
ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः 001a
समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं परन्तपाः 001c
ते गच्छन्तस्त्वहोरात्रं तीर्थं सोमश्रवायणम् 002a
आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः 002c
उल्मुकं तु समुद्यम्य तेषामग्रे धनञ्जयः 003a
प्रकाशार्थं ययौ तत्र रक्षार्थं च महायशाः 003c
तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन्स्त्रियः 004a
ईर्ष्युर्गन्धर्वराजः स्म जलक्रीडामुपागतः 004c
शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् 005a
तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली 005c
स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परन्तपान् 006a
विस्फारयन्धनुर्घोरमिदं वचनमब्रवीत् 006c
सन्ध्या संरज्यते घोरा पूर्वरात्रागमेषु या 007a
अशीतिभिस्त्रुटैर्हीनं तं मुहूर्तं प्रचक्षते 007c
विहितं कामचाराणां यक्षगन्धर्वरक्षसाम् 008a
शेषमन्यन्मनुष्याणां कामचारमिह स्मृतम् 008c
लोभात्प्रचारं चरतस्तासु वेलासु वै नरान् 009a
उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान् 009c
ततो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः 010a
गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि 010c
आरात्तिष्ठत मा मह्यं समीपमुपसर्पत 011a
कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम् 011c
अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम् 012a
अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा 012c
अङ्गारपर्णमिति च ख्यातं वनमिदं मम 013a
अनु गङ्गां च वाकां च चित्रं यत्र वसाम्यहम् 013c
न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः 014a
इदं समुपसर्पन्ति तत्किं समुपसर्पथ 014c
अर्जुन उवाच 015
समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते 015a
रात्रावहनि सन्धौ च कस्य कॢप्तः परिग्रहः 015c
वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुमः 016a
अशक्ता हि क्षणे क्रूरे युष्मानर्चन्ति मानवाः 016c
पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता 017a
गङ्गा गत्वा समुद्राम्भः सप्तधा प्रतिपद्यते 017c
इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः 018a
देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम् 018c
तथा पितॄन्वैतरणी दुस्तरा पापकर्मभिः 019a
गङ्गा भवति गन्धर्व यथा द्वैपायनोऽब्रवीत् 019c
असम्बाधा देवनदी स्वर्गसम्पादनी शुभा 020a
कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः 020c
अनिवार्यमसम्बाधं तव वाचा कथं वयम् 021a
न स्पृशेम यथाकामं पुण्यं भागीरथीजलम् 021c
वैशम्पायन उवाच 022
अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनम्य कार्मुकम् 022a
मुमोच सायकान्दीप्तानहीनाशीविषानिव 022c
उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तमम् 023a
व्यपोवाह शरांस्तस्य सर्वानेव धनञ्जयः 023c
अर्जुन उवाच 024
बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु प्रयुज्यते 024a
अस्त्रज्ञेषु प्रयुक्तैषा फेनवत्प्रविलीयते 024c
मानुषानति गन्धर्वान्सर्वान्गन्धर्व लक्षये 025a
तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया 025c
पुरास्त्रमिदमाग्नेयं प्रादात्किल बृहस्पतिः 026a
भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतोः 026c
भरद्वाजादग्निवेश्यो अग्निवेश्याद्गुरुर्मम 027a
स त्विदं मह्यमददाद्द्रोणो ब्राह्मणसत्तमः 027c
वैशम्पायन उवाच 028
इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह 028a
प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत् 028c
विरथं विप्लुतं तं तु स गन्धर्वं महाबलम् 029a
अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम् 029c
शिरोरुहेषु जग्राह माल्यवत्सु धनञ्जयः 030a
भ्रातॄन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम् 030c
युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी 031a
नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती 031c
गन्धर्व्युवाच 032
त्राहि त्वं मां महाराज पतिं चेमं विमुञ्च मे 032a
गन्धर्वीं शरणं प्राप्तां नाम्ना कुम्बीनसीं प्रभो 032c
युधिष्ठिर उवाच 033
युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम् 033a
को नु हन्याद्रिपुं त्वादृङ्मुञ्चेमं रिपुसूदन 033c
अर्जुन उवाच 034
अङ्गेमं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः 034a
प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः 034c
गन्धर्व उवाच 035
जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम् 035a
न च श्लाघे बलेनाद्य न नाम्ना जनसंसदि 035c
साध्विमं लब्धवाल्ँलाभं योऽहं दिव्यास्त्रधारिणम् 036a
गान्धर्व्या मायया योद्धुमिच्छामि वयसा वरम् 036c
अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः 037a
सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम् 037c
सम्भृता चैव विद्येयं तपसेह पुरा मया 038a
निवेदयिष्ये तामद्य प्राणदाया महात्मने 038c
संस्तम्भितं हि तरसा जितं शरणमागतम् 039a
योऽरिं सम्योजयेत्प्राणैः कल्याणं किं न सोऽर्हति 039c
चक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः 040a
ददौ स विश्वावसवे मह्यं विश्वावसुर्ददौ 040c
सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति 041a
आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे 041c
यच्चक्षुषा द्रष्टुमिच्छेत्त्रिषु लोकेषु किञ्चन 042a
तत्पश्येद्यादृशं चेच्छेत्तादृशं द्रष्टुमर्हति 042c
समानपद्ये षण्मासान्स्थितो विद्यां लभेदिमाम् 043a
अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते 043c
विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः 044a
अविशिष्टाश्च देवानामनुभावप्रवर्तिताः 044c
गन्धर्वजानामश्वानामहं पुरुषसत्तम 045a
भ्रातृभ्यस्तव पञ्चभ्यः पृथग्दाता शतं शतम् 045c
देवगन्धर्ववाहास्ते दिव्यगन्धा मनोगमाः 046a
क्षीणाः क्षीणा भवन्त्येते न हीयन्ते च रंहसः 046c
पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणे 047a
दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि 047c
ततो भागीकृतो देवैर्वज्रभाग उपास्यते 048a
लोके यत्साधनं किञ्चित्सा वै वज्रतनुः स्मृता 048c
वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम् 049a
वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः 049c
वज्रं क्षत्रस्य वाजिनो अवध्या वाजिनः स्मृताः 050a
रथाङ्गं वडवा सूते सूताश्चाश्वेषु ये मताः 050c
कामवर्णाः कामजवाः कामतः समुपस्थिताः 051a
इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः 051c
अर्जुन उवाच 052
यदि प्रीतेन वा दत्तं संशये जीवितस्य वा 052a
विद्या वित्तं श्रुतं वापि न तद्गन्धर्व कामये 052c
गन्धर्व उवाच 053
सम्योगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते 053a
जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते 053c
त्वत्तो ह्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम् 054a
तथैव सख्यं बीभत्सो चिराय भरतर्षभ 054c
अर्जुन उवाच 055
त्वत्तोऽस्त्रेण वृणोम्यश्वान्सम्योगः शाश्वतोऽस्तु नौ 055a
सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं त्यजेत् 055c