वैशम्पायन उवाच 001
वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु 001a
आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः 001c
तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः 002a
प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा 002c
समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत् 003a
प्रसन्नः पूजितः पार्थैः प्रीतिपूर्वमिदं वचः 003c
अपि धर्मेण वर्तध्वं शास्त्रेण च परन्तपाः 004a
अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते 004c
अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः 005a
विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत् 005c
आसीत्तपोवने काचिदृषेः कन्या महात्मनः 006a
विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता 006c
कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत 007a
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती 007c
तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः 008a
तोषयामास तपसा सा किलोग्रेण शङ्करम् 008c
तस्याः स भगवांस्तुष्टस्तामुवाच तपस्विनीम् 009a
वरं वरय भद्रं ते वरदोऽस्मीति भामिनि 009c
अथेश्वरमुवाचेदमात्मनः सा वचो हितम् 010a
पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः 010c
तामथ प्रत्युवाचेदमीशानो वदतां वरः 011a
पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः 011c
प्रतिब्रुवन्तीमेकं मे पतिं देहीति शङ्करम् 012a
पुनरेवाब्रवीद्देव इदं वचनमुत्तमम् 012c
पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः 013a
देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति 013c
द्रुपदस्य कुले जाता कन्या सा देवरूपिणी 014a
निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता 014c
पाञ्चालनगरं तस्मात्प्रविशध्वं महाबलाः 015a
सुखिनस्तामनुप्राप्य भविष्यथ न संशयः 015c
एवमुक्त्वा महाभागः पाण्डवानां पितामहः 016a
पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः 016c