वैशम्पायन उवाच 001
एतच्छ्रुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन् 001a
सर्वे चास्वस्थमनसो बभूवुस्ते महारथाः 001c
ततः कुन्ती सुतान्दृष्ट्वा विभ्रान्तान्गतचेतसः 002a
युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी 002c
चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने 003a
रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर 003c
यानीह रमणीयानि वनान्युपवनानि च 004a
सर्वाणि तानि दृष्टानि पुनः पुनररिन्दम 004c
पुनर्दृष्टानि तान्येव प्रीणयन्ति न नस्तथा 005a
भैक्षं च न तथा वीर लभ्यते कुरुनन्दन 005c
ते वयं साधु पाञ्चालान्गच्छाम यदि मन्यसे 006a
अपूर्वदर्शनं तात रमणीयं भविष्यति 006c
सुभिक्षाश्चैव पाञ्चालाः श्रूयन्ते शत्रुकर्शन 007a
यज्ञसेनश्च राजासौ ब्रह्मण्य इति शुश्रुमः 007c
एकत्र चिरवासो हि क्षमो न च मतो मम 008a
ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे 008c
युधिष्ठिर उवाच 009
भवत्या यन्मतं कार्यं तदस्माकं परं हितम् 009a
अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः 009c
वैशम्पायन उवाच 010
ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा 010a
उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा 010c
तत आमन्त्र्य तं विप्रं कुन्ती राजन्सुतैः सह 011a
प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः 011c