001 ब्राह्मण उवाच
001a अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान्
001c अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून्
002a पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः
002c नास्ति श्रेष्ठं ममापत्यमिति नित्यमचिन्तयत्
003a जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत्
003c निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया
004a प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च
004c क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत
004e प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत
005a अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन्
005c ब्राह्मणावसथं पुण्यमाससाद महीपतिः
006a तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः
006c तथैव नामहाभागः सोऽपश्यत्संशितव्रतौ
007a याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः
007c संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ
008a तारणे युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ
008c स तावामन्त्रयामास सर्वकामैरतन्द्रितः
009a बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे
009c प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम्
010a पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः
010c अर्हयित्वा यथान्यायमुपयाजमुवाच सः
011a येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे
011c उपयाज कृते तस्मिन्गवां दातास्मि तेऽर्बुदम्
012a यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत्
012c सर्वं तत्ते प्रदाताहं न हि मेऽस्त्यत्र संशयः
013a इत्युक्तो नाहमित्येवं तमृषिः प्रत्युवाच ह
013c आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः
014a ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः
014c उपयाजोऽब्रवीद्राजन्काले मधुरया गिरा
015a ज्येष्ठो भ्राता ममागृह्णाद्विचरन्वननिर्झरे
015c अपरिज्ञातशौचायां भूमौ निपतितं फलम्
016a तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन्
016c विमर्शं सङ्करादाने नायं कुर्यात्कथञ्चन
017a दृष्ट्वा फलस्य नापश्यद्दोषा येऽस्यानुबन्धिकाः
017c विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत्
018a संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः
018c भैक्षमुच्छिष्टमन्येषां भुङ्क्ते चापि सदा सदा
018e कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः
019a तमहं फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा
019c तं वै गच्छस्व नृपते स त्वां सम्याजयिष्यति
020a जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन्
020c उपयाजवचः श्रुत्वा नृपतिः सर्वधर्मवित्
020e अभिसम्पूज्य पूजार्हमृषिं याजमुवाच ह
021a अयुतानि ददान्यष्टौ गवां याजय मां विभो
021c द्रोणवैराभिसन्तप्तं त्वं ह्लादयितुमर्हसि
022a स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः
022c तस्माद्द्रोणः पराजैषीन्मां वै स सखिविग्रहे
023a क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः
023c कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः
024a द्रोणस्य शरजालानि प्राणिदेहहराणि च
024c षडरत्नि धनुश्चास्य दृश्यतेऽप्रतिमं महत्
025a स हि ब्राह्मणवेगेन क्षात्रं वेगमसंशयम्
025c प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः
026a क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः
026c तस्य ह्यस्त्रबलं घोरमप्रसह्यं नरैर्भुवि
027a ब्राह्ममुच्चारयंस्तेजो हुताहुतिरिवानलः
027c समेत्य स दहत्याजौ क्षत्रं ब्रह्मपुरःसरः
027e ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते
028a सोऽहं क्षत्रबलाद्धीनो ब्रह्मतेजः प्रपेदिवान्
028c द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम्
029a द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम्
029c तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम्
030a तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत्
030c गुर्वर्थ इति चाकाममुपयाजमचोदयत्
030e याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः
031a ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः
031c आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै
032a स च पुत्रो महावीर्यो महातेजा महाबलः
032c इष्यते यद्विधो राजन्भविता ते तथाविधः
033a भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूमिपः
033c आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये
034a याजस्तु हवनस्यान्ते देवीमाह्वापयत्तदा
034c प्रैहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम्
035 देव्युवाच
035a अवलिप्तं मे मुखं ब्रह्मन्पुण्यान्गन्धान्बिभर्मि च
035c सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये
036 याज उवाच
036a याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम्
036c कथं कामं न सन्दध्यात्सा त्वं विप्रैहि तिष्ठ वा
037 ब्राह्मण उवाच
037a एवमुक्ते तु याजेन हुते हविषि संस्कृते
037c उत्तस्थौ पावकात्तस्मात्कुमारो देवसन्निभः
038a ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम्
038c बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः
039a सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा
039c ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति
040a भयापहो राजपुत्रः पाञ्चालानां यशस्करः
040c राज्ञः शोकापहो जात एष द्रोणवधाय वै
इत्युवाच महद्भूतमदृश्यं खेचरं तदा 040e
कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता 041a
सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा 041c
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा 042a
मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी 042c
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति 043a
या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि 043c
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी 044a
सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति 044c
सुरकार्यमियं काले करिष्यति सुमध्यमा 045a
अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् 045c
तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत् 046a
न चैतान्हर्षसम्पूर्णानियं सेहे वसुन्धरा 046c
तौ दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी 047a
न वै मदन्यां जननीं जानीयातामिमाविति 047c
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया 048a
तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः 048c
धृष्टत्वादतिधृष्णुत्वाद्धर्माद्द्युत्सम्भवादपि 049a
धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति 049c
कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाभूत्सा हि वर्णतः 050a
तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे 050c
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं विवेशनम् 051a
उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् 051c
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः 052a
तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् 052c