001 ब्राह्मण उवाच 001a गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः 001c भरद्वाजो महाप्राज्ञः सततं संशितव्रतः 002a सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् 002c ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः 003a तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा 003c अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः 004a तस्यां संसक्तमनसः कौमारब्रह्मचारिणः 004c हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे 005a ततः समभवद्द्रोणः कुमारस्तस्य धीमतः 005c अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः 006a भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः 006c तस्यापि द्रुपदो नाम तदा समभवत्सुतः 007a स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः 007c चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः 008a ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत् 008c द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः 009a वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत् 009c आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ 010 राम उवाच 010a शरीरमात्रमेवाद्य मयेदमवशेषितम् 010c अस्त्राणि वा शरीरं वा ब्रह्मन्नन्यतरं वृणु 011 द्रोण उवाच 011a अस्त्राणि चैव सर्वाणि तेषां संहारमेव च 011c प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान् 012 ब्राह्मण उवाच 012a तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः 012c प्रतिगृह्य ततो द्रोणः कृतकृत्योऽभवत्तदा 013a सम्प्रहृष्टमनाश्चापि रामात्परमसम्मतम् 013c ब्रह्मास्त्रं समनुप्राप्य नरेष्वभ्यधिकोऽभवत् 014a ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् 014c अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति 015 द्रुपद उवाच 015a नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा 015c नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते 016 ब्राह्मण उवाच 016a स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् 016c जगाम कुरुमुख्यानां नगरं नागसाह्वयम् 017a तस्मै पौत्रान्समादाय वसूनि विविधानि च 017c प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते 018a द्रोणः शिष्यांस्ततः सर्वानिदं वचनमब्रवीत् 018c समानीय तदा विद्वान्द्रुपदस्यासुखाय वै 019a आचार्यवेतनं किञ्चिद्धृदि सम्परिवर्तते 019c कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः 020a यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः 020c ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः 021a पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः 021c तस्यापकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम् 022a ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि 022c द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा 023 द्रोण उवाच 023a प्रार्थयामि त्वया सख्यं पुनरेव नराधिप 023c अराजा किल नो राज्ञः सखा भवितुमर्हति 024a अतः प्रयतितं राज्ये यज्ञसेन मया तव 024c राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे 025 ब्राह्मण उवाच 025a असत्कारः स सुमहान्मुहूर्तमपि तस्य तु 025c न व्येति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत्