जनमेजय उवाच 001
ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् 001a
अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः 001c
वैशम्पायन उवाच 002
तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम् 002a
अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने 002c
ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः 003a
प्रतिश्रयार्थं तद्वेश्म ब्राह्मणस्याजगाम ह 003c
स सम्यक्पूजयित्वा तं विद्वान्विप्रर्षभस्तदा 004a
ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रती 004c
ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः 005a
उपासाञ्चक्रिरे विप्रं कथयानं कथास्तदा 005c
कथयामास देशान्स तीर्थानि विविधानि च 006a
राज्ञां च विविधाश्चर्याः पुराणि विविधानि च 006c
स तत्राकथयद्विप्रः कथान्ते जनमेजय 007a
पाञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् 007c
धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः 008a
अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे 008c
तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः 009a
विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः 009c
कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् 010a
वेदिमध्याच्च कृष्णायाः सम्भवः कथमद्भुतः 010c
कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत 011a
कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च 011c
एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः 012a
कथयामास तत्सर्वं द्रौपदीसम्भवं तदा 012c