वैशम्पायन उवाच 001
तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः 001a
निष्पपात गृहाद्राजन्सहैव परिचारिभिः 001c
तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः 002a
सान्त्वयामास बलवान्समये च न्यवेशयत् 002c
न हिंस्या मानुषा भूयो युष्माभिरिह कर्हिचित् 003a
हिंसतां हि वधः शीघ्रमेवमेव भवेदिति 003c
तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत 004a
एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम् 004c
ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत 005a
नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः 005c
ततो भिमस्तमादाय गतासुं पुरुषादकम् 006a
द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः 006c
ततः स भीमस्तं हत्वा गत्वा ब्राह्मणवेश्म तत् 007a
आचचक्षे यथावृत्तं राज्ञः सर्वमशेषतः 007c
ततो नरा विनिष्क्रान्ता नगरात्काल्यमेव तु 008a
ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम् 008c
तमद्रिकूटसदृशं विनिकीर्णं भयावहम् 009a
एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः परे 009c
ततः सहस्रशो राजन्नरा नगरवासिनः 010a
तत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः 010c
ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम् 011a
दैवतान्यर्चयाञ्चक्रुः सर्व एव विशां पते 011c
ततः प्रगणयामासुः कस्य वारोऽद्य भोजने 012a
ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव तत् 012c
एवं पृष्टस्तु बहुशो रक्षमाणश्च पाण्डवान् 013a
उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा 013c
आज्ञापितं मामशने रुदन्तं सह बन्धुभिः 014a
ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महाबलः 014c
परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च 015a
अब्रवीद्ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्निव 015c
प्रापयिष्याम्यहं तस्मै इदमन्नं दुरात्मने 016a
मन्निमित्तं भयं चापि न कार्यमिति वीर्यवान् 016c
स तदन्नमुपादाय गतो बकवनं प्रति 017a
तेन नूनं भवेदेतत्कर्म लोकहितं कृतम् 017c
ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः 018a
वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा 018c
ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति 019a
तदद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन् 019c