वैशम्पायन उवाच 001
ततो रात्र्यां व्यतीतायामन्नमादाय पाण्डवः 001a
भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः 001c
आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली 002a
आजुहाव ततो नाम्ना तदन्नमुपयोजयन् 002c
ततः स राक्षसः श्रुत्वा भीमसेनस्य तद्वचः 003a
आजगाम सुसङ्क्रुद्धो यत्र भीमो व्यवस्थितः 003c
महाकायो महावेगो दारयन्निव मेदिनीम् 004a
त्रिशिखां भृकुटिं कृत्वा सन्दश्य दशनच्छदम् 004c
भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः 005a
विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत् 005c
कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम् 006a
पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम् 006c
भीमसेनस्तु तच्छ्रुत्वा प्रहसन्निव भारत 007a
राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः 007c
ततः स भैरवं कृत्वा समुद्यम्य करावुभौ 008a
अभ्यद्रवद्भीमसेनं जिघांसुः पुरुषादकः 008c
तथापि परिभूयैनं नेक्षमाणो वृकोदरः 009a
राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा 009c
अमर्षेण तु सम्पूर्णः कुन्तीपुत्रस्य राक्षसः 010a
जघान पृष्ठं पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः 010c
तथा बलवता भीमः पाणिभ्यां भृशमाहतः 011a
नैवावलोकयामास राक्षसं भुङ्क्त एव सः 011c
ततः स भूयः सङ्क्रुद्धो वृक्षमादाय राक्षसः 012a
ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली 012c
ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः 013a
वार्युपस्पृश्य संहृष्टस्तस्थौ युधि महाबलः 013c
क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् 014a
सव्येन पाणिना भीमः प्रहसन्निव भारत 014c
ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली 015a
प्राहिणोद्भीमसेनाय तस्मै भीमश्च पाण्डवः 015c
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् 016a
घोररूपं महाराज बकपाण्डवयोर्महत् 016c
नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम् 017a
भुजाभ्यां परिजग्राह भीमसेनं महाबलम् 017c
भीमसेनोऽपि तद्रक्षः परिरभ्य महाभुजः 018a
विस्फुरन्तं महावेगं विचकर्ष बलाद्बली 018c
स कृष्यमाणो भीमेन कर्षमाणश्च पाण्डवम् 019a
समयुज्यत तीव्रेण श्रमेण पुरुषादकः 019c
तयोर्वेगेन महता पृथिवी समकम्पत 020a
पादपांश्च महाकायांश्चूर्णयामासतुस्तदा 020c
हीयमानं तु तद्रक्षः समीक्ष्य भरतर्षभ 021a
निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकोदरः 021c
ततोऽस्य जानुना पृष्ठमवपीड्य बलादिव 022a
बाहुना परिजग्राह दक्षिणेन शिरोधराम् 022c
सव्येन च कटीदेशे गृह्य वाससि पाण्डवः 023a
तद्रक्षो द्विगुणं चक्रे नदन्तं भैरवान्रवान् 023c
ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशां पते 024a
भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः 024c