वैशम्पायन उवाच 001
करिष्य इति भीमेन प्रतिज्ञाते तु भारत 001a
आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः 001c
आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः 002a
रहः समुपविश्यैकस्ततः पप्रच्छ मातरम् 002c
किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः 003a
भवत्यनुमते कच्चिदयं कर्तुमिहेच्छति 003c
कुन्त्युवाच 004
ममैव वचनादेष करिष्यति परन्तपः 004a
ब्राह्मणार्थे महत्कृत्यं मोक्षाय नगरस्य च 004c
युधिष्ठिर उवाच 005
किमिदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम् 005a
परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः 005c
कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि 006a
लोकवृत्तिविरुद्धं वै पुत्रत्यागात्कृतं त्वया 006c
यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे 007a
राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः 007c
यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः 008a
न शेते वसतीः सर्वा दुःखाच्छकुनिना सह 008c
यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम् 009a
अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः 009c
यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुन्धराम् 010a
इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान् 010c
तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया 011a
कच्चिन्न दुःखैर्बुद्धिस्ते विप्लुता गतचेतसः 011c
कुन्त्युवाच 012
युधिष्ठिर न सन्तापः कार्यः प्रति वृकोदरम् 012a
न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया 012c
इह विप्रस्य भवने वयं पुत्र सुखोषिताः 013a
तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता 013c
एतावानेव पुरुषः कृतं यस्मिन्न नश्यति 013e
दृष्ट्वा भीष्मस्य विक्रान्तं तदा जतुगृहे महत् 014a
हिडिम्बस्य वधाच्चैव विश्वासो मे वृकोदरे 014c
बाह्वोर्बलं हि भीमस्य नागायुतसमं महत् 015a
येन यूयं गजप्रख्या निर्व्यूढा वारणावतात् 015c
वृकोदरबलो नान्यो न भूतो न भविष्यति 016a
योऽभ्युदीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम् 016c
जातमात्रः पुरा चैष ममाङ्कात्पतितो गिरौ 017a
शरीरगौरवात्तस्य शिला गात्रैर्विचूर्णिता 017c
तदहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव 018a
प्रतीकारं च विप्रस्य ततः कृतवती मतिम् 018c
नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम् 019a
बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया 019c
अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः 020a
प्रतीकारश्च वासस्य धर्मश्च चरितो महान् 020c
यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित् 021a
क्षत्रियः स शुभाल्ँलोकान्प्राप्नुयादिति मे श्रुतम् 021c
क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम् 022a
विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च 022c
वैश्यस्यैव तु साहाय्यं कुर्वाणः क्षत्रियो युधि 023a
स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम् 023c
शूद्रं तु मोक्षयन्राजा शरणार्थिनमागतम् 024a
प्राप्नोतीह कुले जन्म सद्रव्ये राजसत्कृते 024c
एवं स भगवान्व्यासः पुरा कौरवनन्दन 025a
प्रोवाच सुतरां प्राज्ञस्तस्मादेतच्चिकीर्षितम् 025c
युधिष्ठिर उवाच 026
उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम् 026a
आर्तस्य ब्राह्मणस्यैवमनुक्रोशादिदं कृतम् 026c
रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् 026e
यथा त्विदं न विन्देयुर्नरा नगरवासिनः 027a
तथायं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः 027c