कुन्त्युवाच 001
न विषादस्त्वया कार्यो भयादस्मात्कथञ्चन 001a
उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः 001c
एकस्तव सुतो बालः कन्या चैका तपस्विनी 002a
न ते तयोस्तथा पत्न्या गमनं तत्र रोचये 002c
मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति 003a
त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः 003c
ब्राह्मण उवाच 004
नाहमेतत्करिष्यामि जीवितार्थी कथञ्चन 004a
ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणैर्वियोजनम् 004c
न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते 005a
यद्ब्राह्मणार्थे विसृजेदात्मानमपि चात्मजम् 005c
आत्मनस्तु मया श्रेयो बोद्धव्यमिति रोचये 006a
ब्रह्मवध्यात्मवध्या वा श्रेय आत्मवधो मम 006c
ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते 007a
अबुद्धिपूर्वं कृत्वापि श्रेय आत्मवधो मम 007c
न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे 008a
परैः कृते वधे पापं न किञ्चिन्मयि विद्यते 008c
अभिसन्धिकृते तस्मिन्ब्राह्मणस्य वधे मया 009a
निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च 009c
आगतस्य गृहे त्यागस्तथैव शरणार्थिनः 010a
याचमानस्य च वधो नृशंसं परमं मतम् 010c
कुर्यान्न निन्दितं कर्म न नृशंसं कदाचन 011a
इति पूर्वे महात्मान आपद्धर्मविदो विदुः 011c
श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम् 012a
ब्राह्मणस्य वधं नाहमनुमंस्ये कथञ्चन 012c
कुन्त्युवाच 013
ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा 013a
न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् 013c
न चासौ राक्षसः शक्तो मम पुत्रविनाशने 014a
वीर्यवान्मन्त्रसिद्धश्च तेजस्वी च सुतो मम 014c
राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् 015a
मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः 015c
समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः 016a
बलवन्तो महाकाया निहताश्चाप्यनेकशः 016c
न त्विदं केषुचिद्ब्रह्मन्व्याहर्तव्यं कथञ्चन 017a
विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात् 017c
गुरुणा चाननुज्ञातो ग्राहयेद्यं सुतो मम 018a
न स कुर्यात्तया कार्यं विद्ययेति सतां मतम् 018c
वैशम्पायन उवाच 019
एवमुक्तस्तु पृथया स विप्रो भार्यया सह 019a
हृष्टः सम्पूजयामास तद्वाक्यममृतोपमम् 019c
ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् 020a
तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ 020c