कुन्त्युवाच 001
कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः 001a
विदित्वा अपकर्षेयं शक्यं चेदपकर्षितुम् 001c
ब्राह्मण उवाच 002
उपपन्नं सतामेतद्यद्ब्रवीषि तपोधने 002a
न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् 002c
समीपे नगरस्यास्य बको वसति राक्षसः 003a
ईशो जनपदस्यास्य पुरस्य च महाबलः 003c
पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः 004a
रक्षत्यसुरराण्नित्यमिमं जनपदं बली 004c
नगरं चैव देशं च रक्षोबलसमन्वितः 005a
तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम् 005c
वेतनं तस्य विहितं शालिवाहस्य भोजनम् 006a
महिषौ पुरुषश्चैको यस्तदादाय गच्छति 006c
एकैकश्चैव पुरुषस्तत्प्रयच्छति भोजनम् 007a
स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः 007c
तद्विमोक्षाय ये चापि यतन्ते पुरुषाः क्वचित् 008a
सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत 008c
वेत्रकीयगृहे राजा नायं नयमिहास्थितः 009a
अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् 009c
एतदर्हा वयं नूनं वसामो दुर्बलस्य ये 010a
विषये नित्यमुद्विग्नाः कुराजानमुपाश्रिताः 010c
ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः 011a
गुणैरेते हि वास्यन्ते कामगाः पक्षिणो यथा 011c
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् 012a
त्रयस्य सञ्चये चास्य ज्ञातीन्पुत्रांश्च धारयेत् 012c
विपरीतं मया चेदं त्रयं सर्वमुपार्जितम् 013a
त इमामापदं प्राप्य भृशं तप्स्यामहे वयम् 013c
सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः 014a
भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया 014c
न च मे विद्यते वित्तं सङ्क्रेतुं पुरुषं क्वचित् 015a
सुहृज्जनं प्रदातुं च न शक्ष्यामि कथञ्चन 015c
गतिं चापि न पश्यामि तस्मान्मोक्षाय रक्षसः 015e
सोऽहं दुःखार्णवे मग्नो महत्यसुतरे भृशम् 016a
सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम् 016c
ततो नः सहितान्क्षुद्रः सर्वानेवोपभोक्ष्यति 016e