वैशम्पायन उवाच 001
तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तत् 001a
भृशं दुःखपरीताङ्गी कन्या तावभ्यभाषत 001c
किमिदं भृशदुःखार्तौ रोरवीथो अनाथवत् 002a
ममापि श्रूयतां किञ्चिच्छ्रुत्वा च क्रियतां क्षमम् 002c
धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः 003a
त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मयैकया 003c
इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति 004a
तस्मिन्नुपस्थिते काले तरतं प्लववन्मया 004c
इह वा तारयेद्दुर्गादुत वा प्रेत्य तारयेत् 005a
सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः 005c
आकाङ्क्षन्ते च दौहित्रानपि नित्यं पितामहाः 006a
तान्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः 006c
भ्राता च मम बालोऽयं गते लोकममुं त्वयि 007a
अचिरेणैव कालेन विनश्येत न संशयः 007c
तातेऽपि हि गते स्वर्गं विनष्टे च ममानुजे 008a
पिण्डः पितॄणां व्युच्छिद्येत्तत्तेषामप्रियं भवेत् 008c
पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम् 009a
दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिता 009c
त्वयि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः 010a
सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम् 010c
आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल 011a
स कृच्छ्रान्मोचयात्मानं मां च धर्मेण योजय 011c
अनाथा कृपणा बाला यत्रक्वचनगामिनी 012a
भविष्यामि त्वया तात विहीना कृपणा बत 012c
अथवाहं करिष्यामि कुलस्यास्य विमोक्षणम् 013a
फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् 013c
अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम 014a
पीडिताहं भविष्यामि तदवेक्षस्व मामपि 014c
तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम 015a
आत्मानं परिरक्षस्व त्यक्तव्यां मां च सन्त्यज 015c
अवश्यकरणीयेऽर्थे मा त्वां कालोऽत्यगादयम् 016a
त्वया दत्तेन तोयेन भविष्यति हितं च मे 016c
किं न्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि 017a
याचमानाः परादन्नं परिधावेमहि श्ववत् 017c
त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे 018a
अमृते वसती लोके भविष्यामि सुखान्विता 018c
एवं बहुविधं तस्या निशम्य परिदेवितम् 019a
पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः 019c
ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तयोः 020a
उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत् 020c
मा रोदीस्तात मा मातर्मा स्वसस्त्वमिति ब्रुवन् 021a
प्रहसन्निव सर्वांस्तानेकैकं सोऽपसर्पति 021c
ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत् 022a
अनेन तं हनिष्यामि राक्षसं पुरुषादकम् 022c
तथापि तेषां दुःखेन परीतानां निशम्य तत् 023a
बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान् 023c
अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् 024a
गतासूनमृतेनेव जीवयन्तीदमब्रवीत् 024c