ब्राह्मण्युवाच 001
न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् 001a
न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते 001c
अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः 002a
अवश्यभाविन्यर्थे वै सन्तापो नेह विद्यते 002c
भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते 003a
व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै 003c
एतद्धि परमं नार्याः कार्यं लोके सनातनम् 004a
प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् 004c
तच्च तत्र कृतं कर्म तवापीह सुखावहम् 005a
भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम् 005c
एष चैव गुरुर्धर्मो यं प्रवक्षाम्यहं तव 006a
अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते 006c
यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि 007a
कन्या चैव कुमारश्च कृताहमनृणा त्वया 007c
समर्थः पोषणे चासि सुतयो रक्षणे तथा 008a
न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे 008c
मम हि त्वद्विहीनायाः सर्वकामा न आपदः 009a
कथं स्यातां सुतौ बालौ भवेयं च कथं त्वहम् 009c
कथं हि विधवानाथा बालपुत्रा विना त्वया 010a
मिथुनं जीवयिष्यामि स्थिता साधुगते पथि 010c
अहङ्कृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम् 011a
अयुक्तैस्तव सम्बन्धे कथं शक्ष्यामि रक्षितुम् 011c
उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः 012a
प्रार्थयन्ति जनाः सर्वे वीरहीनां तथा स्त्रियम् 012c
साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः 013a
स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम 013c
कथं तव कुलस्यैकामिमां बालामसंस्कृताम् 014a
पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे 014c
कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्सितान् 015a
अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् 015c
इमामपि च ते बालामनाथां परिभूय माम् 016a
अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा 016c
तां चेदहं न दित्सेयं त्वद्गुणैरुपबृंहिताम् 017a
प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् 017c
सम्प्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः 018a
अनर्हवशमापन्नामिमां चापि सुतां तव 018c
अवज्ञाता च लोकस्य तथात्मानमजानती 019a
अवलिप्तैर्नरैर्ब्रह्मन्मरिष्यामि न संशयः 019c
तौ विहीनौ मया बालौ त्वया चैव ममात्मजौ 020a
विनश्येतां न सन्देहो मत्स्याविव जलक्षये 020c
त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम् 021a
त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि 021c
व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः 022a
न तु ब्राह्मण पुत्राणां विषये परिवर्तितुम् 022c
परित्यक्तः सुतश्चायं दुहितेयं तथा मया 023a
बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे 023c
यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा 024a
विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः 024c
तदिदं यच्चिकीर्षामि धर्म्यं परमसम्मतम् 025a
इष्टं चैव हितं चैव तव चैव कुलस्य च 025c
इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः 026a
आपद्धर्मविमोक्षाय भार्या चापि सतां मतम् 026c
एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धन 027a
न समं सर्वमेवेति बुधानामेष निश्चयः 027c
स कुरुष्व मया कार्यं तारयात्मानमात्मना 028a
अनुजानीहि मामार्य सुतौ मे परिरक्ष च 028c
अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये 029a
धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि 029c
निःसंशयो वधः पुंसां स्त्रीणां संशयितो वधः 030a
अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि 030c
भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया 031a
त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितम् 031c
जातपुत्रा च वृद्धा च प्रियकामा च ते सदा 032a
समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः 032c
उत्सृज्यापि च मामार्य वेत्स्यस्यन्यामपि स्त्रियम् 033a
ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव 033c
न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम् 034a
स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने 034c
एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम् 035a
आत्मानं तारय मया कुलं चेमौ च दारकौ 035c
वैशम्पायन उवाच 036
एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत 036a
मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः 036c