001 जनमेजय उवाच
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः 001a
अतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः 001c
002 वैशम्पायन उवाच
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः 002a
ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने 002c
रमणीयानि पश्यन्तो वनानि विविधानि च 003a
पार्थिवानपि चोद्देशान्सरितश्च सरांसि च 003c
चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते 004a
बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः 004c
निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि 005a
तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक् 005c
अर्धं ते भुञ्जते वीराः सह मात्रा परन्तपाः 006a
अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः 006c
तथा तु तेषां वसतां तत्र राजन्महात्मनाम् 007a
अतिचक्राम सुमहान्कालोऽथ भरतर्षभ 007c
ततः कदाचिद्भैक्षाय गतास्ते भरतर्षभाः 008a
सङ्गत्या भीमसेनस्तु तत्रास्ते पृथया सह 008c
अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने 009a
भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत 009c
रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च सा 010a
कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे 010c
मथ्यमानेव दुःखेन हृदयेन पृथा ततः 011a
उवाच भीमं कल्याणी कृपान्वितमिदं वचः 011c
वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने 012a
अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः 012c
सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् 013a
प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम् 013c
एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति 014a
यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः 014c
तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् 015a
तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत् 015c
भीम उवाच 016
ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् 016a
विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् 016c
वैशम्पायन उवाच 017
तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् 017a
आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते 017c
अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः 018a
विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी 018c
ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च 019a
दुहित्रा चैव सहितं ददर्श विकृताननम् 019c
ब्राह्मण उवाच 020
धिगिदं जीवितं लोकेऽनलसारमनर्थकम् 020a
दुःखमूलं पराधीनं भृशमप्रियभागि च 020c
जीविते परमं दुःखं जीविते परमो ज्वरः 021a
जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः 021c
एकात्मापि हि धर्मार्थौ कामं च न निषेवते 022a
एतैश्च विप्रयोगोऽपि दुःखं परमकं मतम् 022c
आहुः केचित्परं मोक्षं स च नास्ति कथञ्चन 023a
अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते 023c
अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् 024a
जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् 024c
न हि योगं प्रपश्यामि येन मुच्येयमापदः 025a
पुत्रदारेण वा सार्धं प्राद्रवेयामनामयम् 025c
यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि 026a
यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम् 026c
इह जाता विवृद्धास्मि पिता चेह ममेति च 027a
उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत् 027c
स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तव 028a
बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः 028c
सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम 029a
बन्धुप्रणाशः सम्प्राप्तो भृशं दुःखकरो मम 029c
अथवा मद्विनाशोऽयं न हि शक्ष्यामि कञ्चन 030a
परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् 030c
सहधर्मचरीं दान्तां नित्यं मातृसमां मम 031a
सखायं विहितां देवैर्नित्यं परमिकां गतिम् 031c
मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम् 032a
वरयित्वा यथान्यायं मन्त्रवत्परिणीय च 032c
कुलीनां शीलसम्पन्नामपत्यजननीं मम 033a
त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् 033c
परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् 033e
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् 034a
बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् 034c
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना 035a
यस्यां दौहित्रजाल्ँलोकानाशंसे पितृभिः सह 035c
स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे 035e
मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः 036a
कन्यायां नैव तु पुनर्मम तुल्यावुभौ मतौ 036c
यस्मिल्ँलोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् 037a
अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे 037c
आत्मानमपि चोत्सृज्य तप्स्ये प्रेतवशं गतः 038a
त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् 038c
एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः 039a
आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना 039c
स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् 040a
अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः 040c
सर्वैः सह मृतं श्रेयो न तु मे जीवितं क्षमम् 040e