वैशम्पायन उवाच 001
ते वनेन वनं वीरा घ्नन्तो मृगगणान्बहून् 001a
अपक्रम्य ययू राजंस्त्वरमाणा महारथाः 001c
मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च 002a
रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च 002c
जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः 003a
सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः 003c
क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः 004a
क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः 004c
ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः 005a
नीतिशास्त्रं च धर्मज्ञा ददृशुस्ते पितामहम् 005c
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा 006a
तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः 006c
व्यास उवाच 007
मयेदं मनसा पूर्वं विदितं भरतर्षभाः 007a
यथा स्थितैरधर्मेण धार्तराष्ट्रैर्विवासिताः 007c
तद्विदित्वास्मि सम्प्राप्तश्चिकीर्षुः परमं हितम् 008a
न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय वः 008c
समास्ते चैव मे सर्वे यूयं चैव न संशयः 009a
दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः 009c
तस्मादभ्यधिकः स्नेहो युष्मासु मम साम्प्रतम् 010a
स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत 010c
इदं नगरमभ्याशे रमणीयं निरामयम् 011a
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः 011c
वैशम्पायन उवाच 012
एवं स तान्समाश्वास्य व्यासः पार्थानरिन्दमान् 012a
एकचक्रामभिगतः कुन्तीमाश्वासयत्प्रभुः 012c
जीवपुत्रि सुतस्तेऽयं धर्मपुत्रो युधिष्ठिरः 013a
पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट् 013c
धर्मेण जित्वा पृथिवीमखिलां धर्मविद्वशी 014a
भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयः 014c
पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः 015a
स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा 015c
यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् 016a
राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः 016c
अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च 017a
पितृपैतामहं राज्यमिह भोक्ष्यन्ति ते सुताः 017c
एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने 018a
अब्रवीत्पार्थिवश्रेष्ठमृषिर्द्वैपायनस्तदा 018c
इह मां सम्प्रतीक्षध्वमागमिष्याम्यहं पुनः 019a
देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम् 019c
स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप 020a
जगाम भगवान्व्यासो यथाकाममृषिः प्रभुः 020c