भीम उवाच 001
स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् 001a
हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम् 001c
युधिष्ठिर उवाच 002
क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः 002a
शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव 002c
वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् 003a
रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति 003c
वैशम्पायन उवाच 004
हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः 004a
युधिष्ठिरं च कौन्तेयमिदं वचनमब्रवीत् 004c
आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् 005a
तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे 005c
सोढं तत्परमं दुःखं मया कालप्रतीक्षया 006a
सोऽयमभ्यागतः कालो भविता मे सुखाय वै 006c
मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा 007a
वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे 007c
वरेणापि तथानेन त्वया चापि यशस्विनि 008a
तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति 008c
त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा 009a
भर्त्रानेन महाभागे सम्योजय सुतेन ते 009c
तमुपादाय गच्छेयं यथेष्टं देवरूपिणम् 010a
पुनश्चैवागमिष्यामि विश्रम्भं कुरु मे शुभे 010c
अहं हि मनसा ध्याता सर्वान्नेष्यामि वः सदा 011a
वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान् 011c
पृष्ठेन वो वहिष्यामि शीघ्रां गतिमभीप्सतः 012a
यूयं प्रसादं कुरुत भीमसेनो भजेत माम् 012c
आपदस्तरणे प्राणान्धारयेद्येन येन हि 013a
सर्वमादृत्य कर्तव्यं तद्धर्ममनुवर्तता 013c
आपत्सु यो धारयति धर्मं धर्मविदुत्तमः 014a
व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते 014c
पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते 015a
येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते 015c
युधिष्ठिर उवाच 016
एवमेतद्यथात्थ त्वं हिडिम्बे नात्र संशयः 016a
स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे 016c
स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् 017a
भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः 017c
अहःसु विहरानेन यथाकामं मनोजवा 018a
अयं त्वानयितव्यस्ते भीमसेनः सदा निशि 018c
वैशम्पायन उवाच 019
तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा 019a
भीमसेनमुपादाय ऊर्ध्वमाचक्रमे ततः 019c
शैलशृङ्गेषु रम्येषु देवतायतनेषु च 020a
मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा 020c
कृत्वा च परमं रूपं सर्वाभरणभूषिता 021a
सञ्जल्पन्ती सुमधुरं रमयामास पाण्डवम् 021c
तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु 022a
सरस्सु रमणीयेषु पद्मोत्पलयुतेषु च 022c
नदीद्वीपप्रदेशेषु वैडूर्यसिकतासु च 023a
सुतीर्थवनतोयासु तथा गिरिनदीषु च 023c
सगरस्य प्रदेशेषु मणिहेमचितेषु च 024a
पत्तनेषु च रम्येषु महाशालवनेषु च 024c
देवारण्येषु पुण्येषु तथा पर्वतसानुषु 025a
गुह्यकानां निवासेषु तापसायतनेषु च 025c
सर्वर्तुफलपुष्पेषु मानसेषु सरस्सु च 026a
बिभ्रती परमं रूपं रमयामास पाण्डवम् 026c
रमयन्ती तथा भीमं तत्र तत्र मनोजवा 027a
प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम् 027c
विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् 028a
भीमरूपं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महाबलम् 028c
महेष्वासं महावीर्यं महासत्त्वं महाभुजम् 029a
महाजवं महाकायं महामायमरिन्दमम् 029c
अमानुषं मानुषजं भीमवेगं महाबलम् 030a
यः पिशाचानतीवान्यान्बभूवाति स मानुषान् 030c
बालोऽपि यौवनं प्राप्तो मानुषेषु विशां पते 031a
सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली 031c
सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च 032a
कामरूपधराश्चैव भवन्ति बहुरूपिणः 032c
प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा 033a
मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः 033c
घटभासोत्कच इति मातरं सोऽभ्यभाषत 034a
अभवत्तेन नामास्य घटोत्कच इति स्म ह 034c
अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः 035a
तेषां च दयितो नित्यमात्मभूतो बभूव सः 035c
संवाससमयो जीर्ण इत्यभाषत तं ततः 036a
हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत 036c
कृत्यकाल उपस्थास्ये पितॄनिति घटोत्कचः 037a
आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम् 037c
स हि सृष्टो मघवता शक्तिहेतोर्महात्मना 038a
कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः 038c