वैशम्पायन उवाच 001
प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् 001a
विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह 001c
ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसम्पदा 002a
उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः 002c
कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि 003a
केन कार्येण सुश्रोणि कुतश्चागमनं तव 003c
यदि वास्य वनस्यासि देवता यदि वाप्सराः 004a
आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि 004c
हिडिम्बोवाच 005
यदेतत्पश्यसि वनं नीलमेघनिभं महत् 005a
निवासो राक्षसस्यैतद्धिडिम्बस्य ममैव च 005c
तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि 006a
भ्रात्रा सम्प्रेषितामार्ये त्वां सपुत्रां जिघांसता 006c
क्रूरबुद्धेरहं तस्य वचनादागता इह 007a
अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम् 007c
ततोऽहं सर्वभूतानां भावे विचरता शुभे 008a
चोदिता तव पुत्रस्य मन्मथेन वशानुगा 008c
ततो वृतो मया भर्ता तव पुत्रो महाबलः 009a
अपनेतुं च यतितो न चैव शकितो मया 009c
चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः 010a
स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् 010c
स तेन मम कान्तेन तव पुत्रेण धीमता 011a
बलादितो विनिष्पिष्य व्यपकृष्टो महात्मना 011c
विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् 012a
पश्यध्वं युधि विक्रान्तावेतौ तौ नरराक्षसौ 012c
वैशम्पायन उवाच 013
तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः 013a
अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् 013c
तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् 014a
काङ्क्षमाणौ जयं चैव सिंहाविव रणोत्कटौ 014c
तावन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम् 015a
दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः 015c
वसुधारेणुसंवीतौ वसुधाधरसन्निभौ 016a
विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ 016c
राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु 017a
उवाचेदं वचः पार्थः प्रहसञ्शनकैरिव 017c
भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम् 018a
समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः 018c
साहाय्येऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् 019a
नकुलः सहदेवश्च मातरं गोपयिष्यतः 019c
भीम उवाच 020
उदासीनो निरीक्षस्व न कार्यः सम्भ्रमस्त्वया 020a
न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः 020c
अर्जुन उवाच 021
किमनेन चिरं भीम जीवता पापरक्षसा 021a
गन्तव्यं न चिरं स्थातुमिह शक्यमरिन्दम 021c
पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते 022a
रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च 022c
त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् 023a
पुरा विकुरुते मायां भुजयोः सारमर्पय 023c
वैशम्पायन उवाच 024
अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः 024a
उत्क्षिप्याभ्रामयद्देहं तूर्णं गुणशताधिकम् 024c
भीम उवाच 025
वृथामांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः 025a
वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि 025c
अर्जुन उवाच 026
अथ वा मन्यसे भारं त्वमिमं राक्षसं युधि 026a
करोमि तव साहाय्यं शीघ्रमेव निहन्यताम् 026c
अथ वाप्यहमेवैनं हनिष्यामि वृकोदर 027a
कृतकर्मा परिश्रान्तः साधु तावदुपारम 027c
वैशम्पायन उवाच 028
तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः 028a
निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत् 028c
स मार्यमाणो भीमेन ननाद विपुलं स्वनम् 029a
पूरयंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः 029c
भुजाभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः 030a
मध्ये भङ्क्त्वा स बलवान्हर्षयामास पाण्डवान् 030c
हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः 031a
अपूजयन्नरव्याघ्रं भीमसेनमरिन्दमम् 031c
अभिपूज्य महात्मानं भीमं भीमपराक्रमम् 032a
पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् 032c
नदूरे नगरं मन्ये वनादस्मादहं प्रभो 033a
शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः 033c
ततः सर्वे तथेत्युक्त्वा सह मात्रा परन्तपाः 034a
प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी 034c