वैशम्पायन उवाच 001
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव 001a
भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत् 001c
किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः 002a
मामासादय दुर्बुद्धे तरसा त्वं नराशन 002c
मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि 003a
विशेषतोऽनपकृते परेणापकृते सति 003c
न हीयं स्ववशा बाला कामयत्यद्य मामिह 004a
चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा 004c
भगिनी तव दुर्बुद्धे राक्षसानां यशोहर 004e
त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च 005a
कामयत्यद्य मां भीरुर्नैषा दूषयते कुलम् 005c
अनङ्गेन कृते दोषे नेमां त्वमिह राक्षस 006a
मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि 006c
समागच्छ मया सार्धमेकेनैको नराशन 007a
अहमेव नयिष्यामि त्वामद्य यमसादनम् 007c
अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम् 008a
कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः 008c
अद्य गात्राणि क्रव्यादाः श्येना गोमायवश्च ते 009a
कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे 009c
क्षणेनाद्य करिष्येऽहमिदं वनमकण्टकम् 010a
पुरस्ताद्दूषितं नित्यं त्वया भक्षयता नरान् 010c
अद्य त्वां भगिनी पाप कृष्यमाणं मया भुवि 011a
द्रक्षत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् 011c
निराबाधास्त्वयि हते मया राक्षसपान्सन 012a
वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः 012c
हिडिम्ब उवाच 013
गर्जितेन वृथा किं ते कत्थितेन च मानुष 013a
कृत्वैतत्कर्मणा सर्वं कत्थेथा मा चिरं कृथाः 013c
बलिनं मन्यसे यच्च आत्मानमपराक्रमम् 014a
ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् 014c
न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् 015a
एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् 015c
पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि 016a
हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् 016c
वैशम्पायन उवाच 017
एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः 017a
अभ्यधावत सङ्क्रुद्धो भीमसेनमरिन्दमम् 017c
तस्याभिपततस्तूर्णं भीमो भीमपराक्रमः 018a
वेगेन प्रहृतं बाहुं निजग्राह हसन्निव 018c
निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह 019a
तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा 019c
ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद्धृतः 020a
भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् 020c
पुनर्भीमो बलादेनं विचकर्ष महाबलः 021a
मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति 021c
अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा 022a
राक्षसो भीमसेनश्च विक्रमं चक्रतुः परम् 022c
बभञ्जतुर्महावृक्षाल्ँलताश्चाकर्षतुस्ततः 023a
मत्ताविव सुसंरब्धौ वारणौ षष्टिहायनौ 023c
तयोः शब्देन महता विबुद्धास्ते नरर्षभाः 024a
सह मात्रा तु ददृशुर्हिडिम्बामग्रतः स्थिताम् 024c