वैशम्पायन उवाच 001
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः 001a
अवतीर्य द्रुमात्तस्मादाजगामाथ पाण्डवान् 001c
लोहिताक्षो महाबाहुरूर्ध्वकेशो महाबलः 002a
मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रोज्ज्वलाननः 002c
तमापतन्तं दृष्ट्वैव तथा विकृतदर्शनम् 003a
हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः 003c
आपतत्येष दुष्टात्मा सङ्क्रुद्धः पुरुषादकः 004a
त्वामहं भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु 004c
अहं कामगमा वीर रक्षोबलसमन्विता 005a
आरुहेमां मम श्रोणीं नेष्यामि त्वां विहायसा 005c
प्रबोधयैनान्संसुप्तान्मातरं च परन्तप 006a
सर्वानेव गमिष्यामि गृहीत्वा वो विहायसा 006c
भीम उवाच 007
मा भैस्त्वं विपुलश्रोणि नैष कश्चिन्मयि स्थिते 007a
अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे 007c
नायं प्रतिबलो भीरु राक्षसापसदो मम 008a
सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः 008c
पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ 009a
ऊरू परिघसङ्काशौ संहतं चाप्युरो मम 009c
विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने 010a
मावमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम् 010c
हिडिम्बोवाच 011
नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् 011a
दृष्टापदानस्तु मया मानुषेष्वेव राक्षसः 011c
वैशम्पायन उवाच 012
तथा सञ्जल्पतस्तस्य भीमसेनस्य भारत 012a
वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः 012c
अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः 013a
स्रग्दामपूरितशिखं समग्रेन्दुनिभाननम् 013c
सुभ्रूनासाक्षिकेशान्तं सुकुमारनखत्वचम् 014a
सर्वाभरणसम्युक्तं सुसूक्ष्माम्बरवाससम् 014c
तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् 015a
पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः 015c
सङ्क्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम 016a
उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् 016c
को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः 017a
न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता 017c
धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि 018a
पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि 018c
यानिमानाश्रिताकार्षीरप्रियं सुमहन्मम 019a
एष तानद्य वै सर्वान्हनिष्यामि त्वया सह 019c
एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः 020a
वधायाभिपपातैनां दन्तैर्दन्तानुपस्पृशन् 020c
तमापतन्तं सम्प्रेक्ष्य भीमः प्रहरतां वरः 021a
भर्त्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत् 021c