वैशम्पायन उवाच 001
तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः 001a
अविदूरे वनात्तस्माच्छालवृक्षमुपाश्रितः 001c
क्रूरो मानुषमांसादो महावीर्यो महाबलः 002a
विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः 002c
पिशितेप्सुः क्षुधार्तस्तानपश्यत यदृच्छया 002e
ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान् 003a
जृम्भमाणो महावक्त्रः पुनः पुनरवेक्ष्य च 003c
दुष्टो मानुषमांसादो महाकायो महाबलः 004a
आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् 004c
उपपन्नश्चिरस्याद्य भक्षो मम मनःप्रियः 005a
स्नेहस्रवान्प्रस्रवति जिह्वा पर्येति मे मुखम् 005c
अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः 006a
देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च 006c
आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि 007a
उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु 007c
गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः 008a
मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे 008c
हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम् 009a
अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते 009c
एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः 010a
भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम 010c
भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी 011a
जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ 011c
ददर्श तत्र गत्वा सा पाण्डवान्पृथया सह 012a
शयानान्भीमसेनं च जाग्रतं त्वपराजितम् 012c
दृष्ट्वैव भीमसेनं सा शालस्कन्धमिवोद्गतम् 013a
राक्षसी कामयामास रूपेणाप्रतिमं भुवि 013c
अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः 014a
कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम 014c
नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम् 015a
पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम् 015c
मुहूर्तमिव तृप्तिश्च भवेद्भ्रातुर्ममैव च 016a
हतैरेतैरहत्वा तु मोदिष्ये शाश्वतिः समाः 016c
सा कामरूपिणी रूपं कृत्वा मानुषमुत्तमम् 017a
उपतस्थे महाबाहुं भीमसेनं शनैः शनैः 017c
विलज्जमानेव लता दिव्याभरणभूषिता 018a
स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत् 018c
कुतस्त्वमसि सम्प्राप्तः कश्चासि पुरुषर्षभ 019a
क इमे शेरते चेह पुरुषा देवरूपिणः 019c
केयं च बृहती श्यामा सुकुमारी तवानघ 020a
शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा 020c
नेदं जानाति गहनं वनं राक्षससेवितम् 021a
वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः 021c
तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा 022a
बिभक्षयिषता मांसं युष्माकममरोपम 022c
साहं त्वामभिसम्प्रेक्ष्य देवगर्भसमप्रभम् 023a
नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते 023c
एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर 024a
कामोपहतचित्ताङ्गीं भजमानां भजस्व माम् 024c
त्रास्येऽहं त्वां महाबाहो राक्षसात्पुरुषादकात् 025a
वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ 025c
अन्तरिक्षचरा ह्यस्मि कामतो विचरामि च 026a
अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह 026c
भीम उवाच 027
मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानिमान् 027a
परित्यजेत को न्वद्य प्रभवन्निव राक्षसि 027c
को हि सुप्तानिमान्भ्रातॄन्दत्त्वा राक्षसभोजनम् 028a
मातरं च नरो गच्छेत्कामार्त इव मद्विधः 028c
राक्षस्युवाच 029
यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय 029a
मोक्षयिष्यामि वः कामं राक्षसात्पुरुषादकात् 029c
भीम उवाच 030
सुखसुप्तान्वने भ्रातॄन्मातरं चैव राक्षसि 030a
न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः 030c
न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् 031a
न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने 031c
गच्छ वा तिष्ठ वा भद्रे यद्वापीच्छसि तत्कुरु 032a
तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् 032c