वैशम्पायन उवाच 001
तेन विक्रमता तूर्णमूरुवेगसमीरितम् 001a
प्रववावनिलो राजञ्शुचिशुक्रागमे यथा 001c
स मृद्नन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् 002a
आरुजन्दारुगुल्मांश्च पथस्तस्य समीपजान् 002c
तथा वृक्षान्भञ्जमानो जगामामितविक्रमः 003a
तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत 003c
असकृच्चापि सन्तीर्य दूरपारं भुजप्लवैः 004a
पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा 004c
कृच्छ्रेण मातरं त्वेकां सुकुमारीं यशस्विनीम् 005a
अवहत्तत्र पृष्ठेन रोधःसु विषमेषु च 005c
आगमंस्ते वनोद्देशमल्पमूलफलोदकम् 006a
क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभाः 006c
घोरा समभवत्सन्ध्या दारुणा मृगपक्षिणः 007a
अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः 007c
ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः 008a
नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया 008c
ततो भीमो वनं घोरं प्रविश्य विजनं महत् 009a
न्यग्रोधं विपुलच्छायं रमणीयमुपाद्रवत् 009c
तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः 010a
पानीयं मृगयामीह विश्रमध्वमिति प्रभो 010c
एते रुवन्ति मधुरं सारसा जलचारिणः 011a
ध्रुवमत्र जलस्थायो महानिति मतिर्मम 011c
अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत 012a
जगाम तत्र यत्र स्म रुवन्ति जलचारिणः 012c
स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ 013a
उत्तरीयेण पानीयमाजहार तदा नृप 013c
गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति 014a
स सुप्तां मातरं दृष्ट्वा भ्रातॄंश्च वसुधातले 014c
भृशं दुःखपरीतात्मा विललाप वृकोदरः 014e
शयनेषु परार्ध्येषु ये पुरा वारणावते 015a
नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले 015c
स्वसारं वसुदेवस्य शत्रुसङ्घावमर्दिनः 016a
कुन्तिभोजसुतां कुन्तीं सर्वलक्षणपूजिताम् 016c
स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः 017a
प्रासादशयनां नित्यं पुण्डरीकान्तरप्रभाम् 017c
सुकुमारतरां स्त्रीणां महार्हशयनोचिताम् 018a
शयानां पश्यताद्येह पृथिव्यामतथोचिताम् 018c
धर्मादिन्द्राच्च वायोश्च सुषुवे या सुतानिमान् 019a
सेयं भूमौ परिश्रान्ता शेते ह्यद्यातथोचिता 019c
किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् 020a
योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले 020c
त्रिषु लोकेषु यद्राज्यं धर्मविद्योऽर्हते नृपः 021a
सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम् 021c
अयं नीलाम्बुदश्यामो नरेष्वप्रतिमो भुवि 022a
शेते प्राकृतवद्भूमावतो दुःखतरं नु किम् 022c
अश्विनाविव देवानां याविमौ रूपसम्पदा 023a
तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले 023c
ज्ञातयो यस्य नैव स्युर्विषमाः कुलपांसनाः 024a
स जीवेत्सुसुखं लोके ग्रामे द्रुम इवैकजः 024c
एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः 025a
चैत्यो भवति निर्ज्ञातिरर्चनीयः सुपूजितः 025c
येषां च बहवः शूरा ज्ञातयो धर्मसंश्रिताः 026a
ते जीवन्ति सुखं लोके भवन्ति च निरामयाः 026c
बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः 027a
जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव 027c
वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना 028a
विवासिता न दग्धाश्च कथञ्चित्तस्य शासनात् 028c
तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः 029a
कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् 029c
नातिदूरे च नगरं वनादस्माद्धि लक्षये 030a
जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहं स्वयम् 030c
पास्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः 031a
इति भीमो व्यवस्यैव जजागार स्वयं तदा 031c