वैशम्पायन उवाच 001
अथ रात्र्यां व्यतीतायामशेषो नागरो जनः 001a
तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् 001c
निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः 002a
जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् 002c
नूनं दुर्योधनेनेदं विहितं पापकर्मणा 003a
पाण्डवानां विनाशाय इत्येवं चुक्रुषुर्जनाः 003c
विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः 004a
दग्धवान्पाण्डुदायादान्न ह्येनं प्रतिषिद्धवान् 004c
नूनं शान्तनवो भीष्मो न धर्ममनुवर्तते 005a
द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः 005c
ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः 006a
संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि 006c
ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् 007a
निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम् 007c
खनकेन तु तेनैव वेश्म शोधयता बिलम् 008a
पांसुभिः प्रत्यपिहितं पुरुषैस्तैरलक्षितम् 008c
ततस्ते प्रेषयामासुर्धृतराष्ट्रस्य नागराः 009a
पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् 009c
श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम् 010a
विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः 010c
अद्य पाण्डुर्मृतो राजा भ्राता मम सुदुर्लभः 011a
तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः 011c
गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् 012a
सत्कारयन्तु तान्वीरान्कुन्तिराजसुतां च ताम् 012c
कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च 013a
ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि 013c
एवङ्गते मया शक्यं यद्यत्कारयितुं हितम् 014a
पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः 014c
एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः 015a
उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः 015c
चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः 016a
विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः 016c
पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात् 017a
जवेन प्रययू राजन्दक्षिणां दिशमाश्रिताः 017c
विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः 018a
यतमाना वनं राजन्गहनं प्रतिपेदिरे 018c
ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः 019a
पुनरूचुर्महावीर्यं भीमसेनमिदं वचः 019c
इतः कष्टतरं किं नु यद्वयं गहने वने 020a
दिशश्च न प्रजानीमो गन्तुं चैव न शक्नुमः 020c
तं च पापं न जानीमो यदि दग्धः पुरोचनः 021a
कथं नु विप्रमुच्येम भयादस्मादलक्षिताः 021c
पुनरस्मानुपादाय तथैव व्रज भारत 022a
त्वं हि नो बलवानेको यथा सततगस्तथा 022c
इत्युक्तो धर्मराजेन भीमसेनो महाबलः 023a
आदाय कुन्तीं भ्रातॄंश्च जगामाशु महाबलः 023c